________________
४६६
विजयप्रशस्त्याम् ।
किमसमञ्जसमित्याहपरमात्मनोऽङ्गीकारो नैतेषामस्ति दर्शने । तुङ्गानामपि शैलानां मौलौ न स्थितिरम्भसः ॥ १७६॥
एतेषां जैनानां, दर्शने परमात्मनः परमेश्वरस्य, अङ्गीकारः स्वीकारः, नास्तीत्यन्वयः । यथा शैलानां गिरीणां तुङ्गानामुश्वानामपि, मौलौ न अम्भसः पानीयस्य स्थितिस्तथा महतामपि जैनानां दर्शने न जगदीश्वराऽभ्युपगम इति ॥ १७६ ॥ बिभर्ति तदजाकण्ठकुचकेलिमुदीरितम् । अमीभिरपि यत् प्रोक्तः प्रेयान् नः परमेश्वरः ॥ १७७॥
,
तद् वाडवोदीरितं वचः, अजाकण्टकुचस्य केलिः क्रीडा तां विभर्तीति गलस्तन स्तनप्रायमकिञ्चित्करमित्यर्थः यद यतोहेतोः, अपेर्निश्चयार्थत्वात्, अमीभिरेव नोऽस्माकं प्रेयानभीष्टः परमेश्वरः प्रोक्तोऽस्तीति कृत्वा सूत्रकण्ठोत्तमुल्लुण्ठप्रलपितमित्र व्यर्थमेवेति ।। १७७ ।।
तदीयग्रन्थसंमत्या तदेवोपदर्शयति
थं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्मेति मीमांसकाः । अर्हन्नित्यथ जैनशासनरताः कर्तेति नैयायिकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः। १७८ ।
हनूमन्नाटकगतस्याऽप्यस्य वृत्तस्यावसराऽऽयातत्वेन किचिद् व्याख्यानं यथा- पं कमप्यचिन्त्यात्मानं परमात्मानं, शैवा नैयायिकजातीयाः, शिव शिवेति कृत्वा समुपासते सेवन्ते, तथा वेदान्तो ब्रह्माद्वैतवादिनः ब्रह्मेति कृत्वा ; तथा बौद्धाः प्रमाणे तर्के पटवो बुद्ध बुद्धेति कृत्वा; तथा मीमांसकाः कर्मेति कर्मरूप
"