SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ३७६ विजयमशस्त्याम् । मुत्प्रह्ववीपाह्वगृहस्थहस्तिनः सोत्कर्ष भूषाभिरलङ्कृतं गृहम् । पूज्या अलंचक्रुरुदारवृत्तयः सभां सुधर्मामिव वज्रपाणयः ॥ ४७ ॥ मुदा हर्षेणाथवा मुदि हर्षे महः परायणो यो बीपाहो गृहस्थहस्ती श्राद्धसिन्धुरस्तस्य गृहं किं०, अलङ्कृतं शृङ्गारितं काभिः, सोत्कर्षाः सविशेषा या भूषा मण्डनलेपनधूपनदीपनधवलनस्वस्तिकस्थासकार्पण तोरणचन्द्रोदयादि निर्मापणरूपास्ताभिः पूज्या अलञ्चक्रुः, किं०, उदारवृत्तयः स्फाराचाराः । अत्र दृष्टान्तमुत्प्रेक्षां वा माह--सुधर्मा सभां वज्रपाणय इन्द्रा इवेति ॥ ४७ ॥ अथास्तिकैरस्तिधनैर्गुरुत्तमा . भिप्रायविज्ञानविचक्षणैः क्षणात् । प्रचक्रिरेऽस्मिन्नगरे महोत्सवा किं. १ अथाऽस्मिन्नगरे आस्तिकैः किं०, अस्तिधनैर्धनवद्भिः पुनः गुरूत्तमानां योऽभिप्रायोऽध्यवसायः पट्टस्थापनारूपस्तस्य विज्ञाने ज्ञाने विचक्षणैर्निपुणैः, महोत्सवा महामहाः, प्रचक्रिरे । अत्र दृष्टान्तमाह- केलिकाने क्रीडोद्याने, ग्राम्यैर्दाक्षिणात्यैः, समीरैर्मलयानिलैः, तरुलताकुसुमगुल्मादिवृद्धिहेतवो महोत्सवा महोत्सेका महोत्कर्षा विधीयन्त इति ॥ ४८ ॥ अथाचार्यपदोत्सवं वर्णयति--. स मण्डपोऽमण्डि मनोज्ञकुम्भभृ याम्यैः समीरैरिव केलिकानने ॥ ४८ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy