SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः । सुकृतदेशनया सुगुरोस्तदा सुकृतधीर्जनताऽजनि भूयसी । प्रसरता मरुता मलयोद्भुवा फलदलाभिमुखेव वनावली ॥ २० ॥ तदा तत्रस्थस्य सुगुरोः सुकृतदेशनया भूयसी जनता जनसंहतिः, सुकृते धर्मे धीर्यस्याः सा, अजनि जाता, यथा मलयोछुवा मरुता मलयाचलजेन पवनेन, प्रसरता सता, वनावली फलदलाभिमुखी भवति ॥ २० ॥ बहुरभूत् पुरि तत्र धनव्ययः सुकृतकर्मणि मुक्तिफलस्तदा । सलिलवृष्टिरिवातुलतापहृत् क्षितितले मधुरा मुदिरागमे ॥ २१ ॥ 9 तदा गुरोस्तत्र स्थितौ सत्यां तत्र सुकृतकर्मणि, धनव्ययो बहुरभूत्, इवेति दृष्टान्ते, यथा मुदिरागमे मेघागमे, सलिलवृष्टिः किं०, अतुलतापहृद् भवतीति ॥ २१ ॥ सुगुरुचारुवचोभिरुदञ्चितः सुकृतभूमिषु वप्तुमनाः श्रियः । भविकभाजनभोटकसंज्ञकः सशिवसाधुशिवान्वयचन्द्रमाः ॥ २२ ॥ निजभुजार्जितसुन्दरसंपदां ५४१ पदमहम्मदपूर्वपुरस्थितिः । बलिषु शालिषु शीलिषु चाग्रणी -
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy