SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । रिह विभाति भुवस्तलभूषणम् ॥ २३ ॥ अनयोर्व्याख्या- सुगुरोः चारुवचोभिः उदश्चितो रोमाडरित उत्साहित इति, अत एव सुकृतभूमिषु धर्मस्थानेषु श्रियो वप्तुकाम इति, पुनः किं०, भविकस्य मङ्गलस्य भाजनम्, एवंभूतो भोकसंज्ञः साधुभोदाख्यः श्राद्धः पुनः किं०, सशिवः सकुशलो यः साधुः शिवस्त पिता तस्याऽन्वये चन्द्रमाः ॥ २२ ॥ पुनः किं०, निजभुजाभ्यां अर्जिता याः सुन्दराः संपदस्तासां पदं, पुनः, अहम्मदपूर्व यत् पुरं अहम्मदपुरं तत्र स्थितिर्यस्येत्यहम्मदपुरवास्तव्य इति, तथा बलिषु बलवत्सु, शालिषु शोभनेषु, शीलिषु शीलवत्सु, अग्रणीर्मुख्यः ; अत एव भ्रुवस्तलभूषणं, इहावसरे, विभातीति ॥ इति युग्मव्याख्या || २३ || अथ च तेन महेभ्यबिडौजसा सुकृतिना कृतिनाऽऽशु विधापितम् । ५४२ -- घनधनव्ययचारुमहोत्सवै यतिपतिजिनबिम्बमतिष्ठिपत् ॥ २४ ॥ अति लाग्निकदिवसे माघशुक्लपञ्चम्यां तेन सा० भोटारूयेन, किं०, महेभ्येषु विडौजसा इन्द्रेण, पुनः, सुकृतिना, पुनः, कृतिना, विधापितं जिनविम्बं घनघनव्ययचारुभिर्महोत्सवैर्यतिपतिर्गुरुः, अतिष्ठिपत्प्रतिष्ठाविषयीकुरुते स्मेति ॥ २४ ॥ कुमतिकुञ्जरकेसरिणस्तदा विबुधलब्धिपुरस्सरसागराः । विदधिरेऽथ तपखिपुरन्दरैगुणगणप्रवरैः खलु वाचकाः ॥ २५ ॥ तदा सा० भोटाख्यव्यवहारिप्रतिष्ठादिने, गुणगणप्रवरैस्त
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy