SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः । ५४३ पविपुरन्दरैः सूरिभिः, विबुधलब्धिपुरस्सरसागराः पं०लब्धिसागराः, वाचका विदधिरे, यतस्ते किं०, कुमतिकुञ्जरकेसरिणइति तेषां संघाग्रहात् श्रीगुरुभिरुपाध्यायपदं प्रदत्तमिति ||२५|| अथाहम्मदाबादे प्रतिष्ठामाहपुरवरेऽत्र महेभ्यवछाभिधो जवहरीहरिमन्त्रिसमो धिया । श्रियमियति य आर्यमनोरथो जिनवचरसरसीरुहषट्पदः ॥ २६ ॥ अथाऽस्मिन् पुरवरेऽकमिपुरे, महेभ्यः वछाभिधो जवहरीः, श्रियं इत्यन्वयः, कथं०, यो व्यवहारी आर्या मनोरथा यस्येति, पुनः किं०, जिनवच एव सरसीरुहं तत्र पट्पदो भृङ्गः, तत एव हरिमन्त्री बृहस्पतिस्तत्समो घियास्तीति ॥ २६ ॥ अथ च तेन विधापितमुत्तमं जिनबिम्बमघाब्धिघटोद्भवम् । सकलसूरिशिरोमणितां गतो गुरुरुरूत्सव पूर्वमतिष्ठिपत् ॥ २७ ॥ तेन जवहरिवच्छाभिधानेन, विधापितं जिनपविम्बं किं०, अघाब्धौ पापपाथोधो घटोद्भवोऽगस्तिस्तं गुरुः किं०, सकलसूरिषु शिरोमणितां गतः प्राप्तः श्रीविजयसेनसूरिः, उरूत्सवपूर्व अतिष्ठिपत् ।। २७ ।। इतरदप्यनगारपुरन्दराः सुकृतकृत्यमकृत्यगजाङ्कुशाः । विदधिरे बहु तत्र पुरे सुखं
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy