SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५४४ विजयप्रशस्त्याम् । दिनसगृद्धिमिवाम्बरकेतवः ॥ २८ ॥ __ तत्राकमिपुरे, अनगारपुरन्दराः श्रीगुरुवः, इतरदपि नानाविधं, सुकृतकृत्यं पञ्चमहावताणुव्रतब्रह्मवतारोपणादि, विदघिरे गुरुवः कि०, अकृत्यरूपगजस्य अङ्कुशाः, यथा अम्बरकेतकः पूज्यत्वाद् वहुत्वं सूर्या दिनसमृद्धिं विदधत इति ॥२८॥ सुखमशेषमखण्डलविक्रमा बुभुजिरे पुरि तत्र गुरूत्तमाः। प्रचुरपौरपयोजपरम्परा प्रणयपूरणपङ्कजिनीप्रियाः ॥ २९ ॥ तत्र पुरि गुरूत्तमाः किं०, अखण्डलविक्रमाः केनाप्यखण्डितपराक्रमाः, पुनः, प्रचुरेति स्पष्टम् , अशेपं सुखं बुभुजिरे सदैव सुखिनोऽभूवन्निति ॥ २९॥ गुरुमुदीक्ष्य सुपुण्यपयोनिधि प्रणयदं च महाव्रतिवल्लभम् । मुदमियाय जनोऽत्र महीयसी हिमरुचिं चलचञ्चुरिवोच्चकैः ॥ ३० ॥ अत्र नगरे गुरुमुदीक्ष्य दृष्ट्वा, जनो महीयसी मुदं, इयाय, कः कमिव, चञ्चलचञ्चुश्चकोरो यथा हिमरुचिं चन्द्र, गुरुं च चन्द्रं च किं०,सुपुण्यरूपः पयोनिधिः समुद्रस्तस्य प्रणयदं प्रीतिप्रदमिति, परोऽपि पयोधिप्रणयप्रदो भवति, तथा महाव्रतिनां वल्लभं, पक्षे महाव्रतिनो हरस्य तेन मूनि धृतत्वादिति ॥ ३०॥ द्रुतविलम्बितच्छन्दसा सर्ग निर्माय हरिण्योपसंहरतिश्रितवति गुरौ चङ्गं द्रङ्गं तमुल्वणदोर्बले दृगजनितमां द्राग् निस्तेजाः कुपाक्षिकभूस्पृशाम् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy