SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। घूकयोः" इति श्रीहेमाचार्यवचनात् कौशिकचक्षुषां शक्रलोचनानामिति ॥४७॥ ये नाम्बुधित्वेन सतां विशन्ति ___ स्वान्ते श्रियो जन्मकृतोऽपि पूज्याः। दोषाकरोऽप्याप्तसरस्वतीनां येषां न तोषाय बभूव दृष्टः ॥ ४८ ॥ ये पूज्याः श्रियो लक्ष्म्याः शोभाया वा, जन्मकृतः उत्पादका अपि, शब्दच्छलात् श्रियो जनका अपि, अम्बुधित्वेन समुद्रतया, सतां वान्ते चित्ते, न विशन्ति न प्रतिभान्तीत्यर्थः । तद्धेतुमेवाह-आप्ता प्राप्ता सरस्वती वाक्, पक्षे आप्ताः सरस्वत्योनद्यो यस्तेषां आप्तसरस्वतीनामपि दोषाणां मदमोहमायाममतामत्सरादीनां आकरो निकरः दोषाकरः, पक्षे चन्द्रः, दृष्टः, तोषाय तुष्टये, न बभूवेति समुद्रताऽभानकारणमित्याकूतम् ॥४८॥ मन्यामहे नेति विचार्य राज्ञो यानप्यवाप्तोत्तमराज्यलीलान् । दोषागमं दागहरन्नपीताः सर्वज्ञचूडामणिताममी यद् ॥ ४९ ॥ .. अवाप्ता उत्तमस्य राज्यस्य तपागच्छसाम्राज्यस्य लीला यैस्तान् अवाप्तोत्तमराज्यलीलानपि, यान् गुरुन्, राजश्चन्द्रान्, न मन्यामहे, वयमिति यावत् । किं कृत्वा, विचार्य विमृश्य, कथमिति तदेवाह-यदिति यतः,अमी गुरवः सर्वत्रचूडामणितां सर्वेच ते झाः प्राज्ञाचेति कर्मधारयस्तेषु सर्वश्रेषु सकलपण्डितेषु चूडामणितां शिरोमणितां, पक्षे सर्वज्ञस्य महादेवस्य चूडामणिता,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy