SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। शं, संस्थिता विपना, तदितरातु असंस्थिता, अर्थात् जाग्रती मुद् यस्य यत्र वा इति तत् । अथवैतत् क्रियाविशेषणम् । तदेतेन यत्र मेदपाटदेशे वनादिरामणीयकं नन्दनवनादपि अधिकमिति सूचयाञ्चकार ग्रन्थकारः ॥१६॥ वर्णादिधन्यधनधातुखनीनिरीक्ष्य यत्राविपत्तिपदवीः पदमुन्नतीनाम् । नो रोहणाचलसुधाश्यचलाचलासु गन्तुं करोति ननु कोऽपि मनाग्मनः खम् ॥१७॥ - स्वर्ण काञ्चनमादिर्येषां रजतादीनां ते स्वर्णादयः, धन्याना भाग्यवतां, धनभूता धन्यधनाः, धन्यधनाच ते धातवश्व धन्यधनधातवः, स्वर्णादयश्च ते धन्यधनधातवश्च स्वर्णादिधन्यधनधातवः । तेषां स्वर्णादिधन्यधनधातूनाम् । उपलक्षणत्वाच रवादीनामपिः खनीः आकरान् , निरीक्ष्य दृष्ट्वा, रोहणाचलः रवशैलः, सुधाश्यचलश्च काश्चनशैलः; तयोः अचलासु भूमिषु । गन्तुम् , कोऽपि; पुमानिति गम्यम् । स्वं मनो निजं हृदयम् । मनागपि ईषदपि, न करोति । इत्यनेन यत्र देशे रोहणाचलसुवर्णाचलाभ्यामपि रवस्वर्णादिधातूनामाधिक्यमसूचीत्याशयः ॥१७॥ सद्विभ्रमैरभिमता बिसतन्तुहारा चक्रस्तनाः कमलकोमलपाणिपादाः ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy