SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । २६५ किं०, बन्दिरं जलपथ सद्भावात्, पुनः किं०, सन्मन्दिरं प्रशस्यगृह, पुनः किं०, इन्दिराया लक्ष्म्या आस्पदं पदं, समागता आगतवन्त इति ।। १९ ॥ तत्राथ पुण्यैः प्रमना अगारिणी पूनीतिनाम्नी शुचिशीलधारिणी । महोत्सवोत्साहमयैः श्रियो व्ययै रहेत्प्रतिष्ठां सुघटामजीघटत् ॥ २० ॥ अथ तत्र नगरे स्तम्भतीर्थे, पुण्यैः प्रमना हर्षितमानसा, पूनीतिनाम्नी अगारिणी गृहस्था, अस्तीत्यन्वयः । किं०, शुचिशीलधारिणी, सा पूनी नाम श्राविका श्रियो व्ययैः, किं०, महोत्सवोत्साहमयैः प्रचुरोत्सवैः प्रचुरोत्साहैश्व, अईत्प्रतिष्ठां किं०, सुघटां मनोशरचनां, अजीघटत् कारयामासेति ॥ २० ॥ पूज्याः ! प्रतिष्ठा विबुधत्वसंपदामस्मिन् गणीन्दौ जयसिंहनामनि । शिष्यर्षभे स्वे प्रविधीयतां दुतं " गुरौ गुरुत्वं त्रिदशैरिवोत्तमम् ॥ २१ ॥ हे पूज्याः ! अस्मिन् जयसिंहनाम्नि, गणिचन्द्रे, पुनः किं०. शिष्यर्षभे विनेयवृषभे, स्वे स्वकीये, विबुधत्वसंपदां पण्डितपदश्रीणां प्रतिष्ठा विधीयतामित्यन्वयः । यथा गुरौ बृहस्पतौ, त्रिदशैर्देवैः, गुरुत्वं प्रविधीयते; तस्य हि सुरगुरुरित्यभिधानादिति ।। २१ ।। इत्याग्रहं कुर्वति कृत्यकोविदे सङ्केऽनघे तीर्थनिवासिनि स्फुटम् । ३५
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy