________________
२५० विजयशस्याम् ।
डीसाऽभिधाननगरं गुरवोऽधिजग्मुः ॥ १४ ॥ अथ ते गुरवः पदद्वयपांसुपूरैश्चरणयुग्मरेणुगणैः, मौक्तिकैरिव, पृथ्वीं विभूषणमयीं सृजन्तः सन्तो विहरन्त इति यावत् , श्रद्धालवश्च ते लोकाश्च श्रद्धालुलोका आस्तिकजनास्तेषां यानि कुलानि गृहाणि कुटुम्बानि वा तैः संकुलं पूर्ण, डीसाऽभिधाननगरं, पुनः किं०, उत्सवाढ्यं महार्द्धमत्त्वात् , अधिजग्मुः प्राप्ताइति ॥४४॥ - आरोप्य तत्र जयसिंहगणीन्दुरत्ने
व्याख्यानमुख्यमखिलं यतिजातकृत्यम् । आराधयन्नथ हृदीहितकार्यमेते
श्रीसूरिमन्त्रमनघं शनिनामधीशाः ॥ ४५ ॥ तत्र डीसाऽऽख्ये नगरे, अर्थते शमिनामधीशा मुनीन्द्राः, श्रीमरिमन्त्रं, किं०, अनघं निष्पापं, आराधयन् , हृदि हृदये, मन्त्रं किं०, ईहितं कार्य यस्मात् तत् , अथवा हृदीहितकार्यमित्यखण्डं पदं, किं कृत्वा, आरोग्य संस्थाप्य, किं, यतिजातकृत्यं यतिजातस्य मुनिन्दस्याऽध्ययनाध्यापनयोगोद्वाहनादि कार्य, किं०, व्याख्यानमुख्यं व्याख्यानादिकं, कस्मिन् , जयसिंहगणीन्दुरत्ने, जयविमलगणिचन्द्रचूडामणौ सर्व साधुश्राद्धसामाचारीसत्यापनरूपं कृत्यं स्थापयित्वा स्वयं त्रिमासिक सूरिमन्त्रध्यानं कृतवन्त इति ॥ ४५ ॥ ध्यानाधिरूढमनसां मुनिपुङ्गवानां
तेषां सुदुस्तपतपः सृजतां तदानीम् । आसीत् तडित्ततिरिवाऽद्भुतसूरिमन्त्राधिष्ठायकः सुरपतिः प्रकटः पुरस्तात् ॥ ४६ ॥