________________
२१२
बिजयमशस्त्याम् ।
जयदानसूरयः, मुदं हर्ष, अदधुरिति घरन्ति स्मेत्यन्वयः । गुरवः कीदृशाः, दममीनमहार्णवाः उपशमरूपमत्स्यमहाम्भोधयः, तदाधारत्वात् ।। ५० ।। सुदृगयं जयसिंहशिशुर्वतिव्रतकलत्रकरग्रहणोत्सुकः ।
शुभति तत्र पुरे सममम्बया
सदयया दयया सुकृती यथा ॥ ५१ ॥
सुदृक् सुलोचनः सुधीर्वा, सुदर्शनो वा; अयं जयसिंहशिशुः किं०, व्रतिव्रतकलत्रकरग्रहणोत्सुकः संयमत्रीपरिणयनपरायणः, तत्र पुरे सुरतिबन्दिरे, अम्बया मात्रा, समं सार्धं, शुभति शोभते, अम्बया किंलक्षणया, सदयया सद्भाग्यया, यथा सुकृती पुण्यवान्, दयया कृपया, शुभतीति दृष्टान्तः ॥५१॥ सांप्रतं जयसिंहकुमारस्य दीक्षामहोत्सवो वर्ण्यतेअथ जगज्जनचित्तचमत्कृतिप्रसित आविरभूदतिशायिमुं । सपदि तत्र महोत्सव उल्लस
ल्लवमयोऽवमयोगलताहिमम् ॥ ५२ ॥
अति अन्यदा, तत्र सूरतिबन्दिरे, सपदि महोत्सवः आविरभूत् प्रकटीबभूव, महोत्सवः कीदृशः, जगज्जनचित्तचमत्कृतौ विश्वलोकचेतश्चमत्कारे, प्रसितः परायणः, पुनः किं०, अतिशायिमुत् घनहर्षदायीति, पुनः किं०, उल्लसन् यो लवो विलासः तन्मयस्तत्प्रधानः, अत्र प्राधान्ये मयट् ; पुनः कीदृशः, अवमयोगलतायां पापयोगवल्लौ हिमं तुहिनं, तत्प्लोषकस्वादिति ॥ ५२ ॥