SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । अतुलमङ्गलकृद् धवलध्वनिः समभवत् पुरि तत्र तदीरितः । हृदनयन् विकृतिं ननु याः सदा युवतयो बत ! योगजुषामपि ॥ ५३ ॥ २१३ पुनस्तत्र पुरे, याः पश्चिमार्धे वर्णयिष्यामः, ताभिः स्त्रीभिरीरितस्तदीरितः, धवलध्वनिर्मङ्गलारवः, समभूत् । कीदृशः, अतुलमङ्गलानि करोतीति सोऽतुलमङ्गलकृत् निस्तुलकल्याणकारीति पूर्वार्धम् ; या युवतयः स्त्रियः, वतेति कोमलामन्त्रणे, योगजुषां योगिनां हृद् हृदयं, विकृतिं विकारं, अनयन् नयन्ति स्मेति ॥ ५३ ॥ नटनमाविरभूत् पणसुभ्रुवां तदिह हारि जितामरसुभ्रुवाम् । नयनयोः पथि यन्नयतां नृणां समुदभूद् मुदभूतसुखाङ्कुरः ॥ ५४ ॥ पुनरिह पुरे, हारि मनोज्ञं, तन्नटनं नाव्यं, आविरभूत् । कासां, पणसुभ्रुवां पण्याङ्गनानां पात्रनामधारिणीनां, खैरिणीनामिति योगः; पण्याङ्गनानां किं०, जितामरसुभ्रुवां निर्जितनिजराङ्गनानां रूपयौवनहावभावादिभिरिति शेषः । तत्किमित्याह-यन्नटनं नयनयोः पथि नयतां पश्यतां नराणां, मुद् हर्षः, समुदभूत् ; कीदृक्, अभूतं पुरा कदाऽप्यजातं यत्सुखं तस्याङ्कुरो बीजं कारणमिति यावत् ॥ ५४ ॥ उदयदर्यमरम्यरुचां भरैर्भवति या खचिते वसुधातले ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy