________________
पञ्चमः सर्गः ।
वरति गौरतिगौरगुणश्रियः १ ॥ ४८ ॥
अतिगौरगुणश्रियोऽस्य शिशोः, गतिं अनुसरन्, कथं नवो गौर्दृषभः, चरति गच्छति, अपि तु नेत्यन्वयः अस्य गतेरनुकारी न स्यादिति तात्पर्यम् । तद्धेतुमेवाह - यदिति यस्माद्धेतोः अयं शिशुः एकपराक्रमी सन्, जगतोऽतिभरां महाभारामपि, धुरं धरिष्यति, नवो गौस्तु पराक्रमवानपि एकाकी धुरं न धरतीति निगर्वः ॥ ४८ ॥
२११
इति जगत्प्रभुतापिशुनैर्महोदयकृतिप्रवणैर्वरलक्षणैः । पृथुशिराः पृथुकः श्रयते श्रियं
सकमलैः कमलैरिव वापिका ॥ ४९ ॥
इति व्यावर्णितस्वरूपैः, पुनः, जगत्प्रभुतापिशुनैर्विश्वैश्वर्यसूचकैः, पुनः, महोदयकृतिप्रवणैः सर्वाऽभ्युदयकरणपरायणैः, वरैः प्रधानैर्लक्षणैः, अयं पृथुको बालकः कीदृशः, पृथुशिरा विस्तीर्णशीर्षः, श्रियं श्रयते शोभां भजति इत्यन्वयः । दृष्टान्तमाह--यथा सकमलैः सश्रीकैः कमलैर्वापिका वापीत्यर्थः ॥ ४९ ॥
अतिमहत्तरकारणकारणाऽगणितलक्षणलक्षणलक्षितम् ।
अमुमुदीक्ष्य शिशुं गुरवोऽदधु
मुदममी दममीनमहार्णवाः ॥ ५० ॥
अतिमहत्तराणां द्विषतां यत् कारणं घातनं तत्कारणानि प्रकृष्टहेतुभूतानि यानि अगणितानि गणनाऽतीतानि लक्षणानि नामानि येषां तानि लक्षणानि लान्छनानि तैर्लक्षितं अलङ्कृतं, अनुं शिशुं उदीक्ष्य दृष्ट्वा, गुरवोऽधिकारात् श्रीवि