________________
द्वितीयः सर्गः ।
विशालौ विस्तीर्णौ शङ्खौ भालश्रोत्रान्तररूपौ शरीरावयवविशेषौ यत्र तत्, पक्षे विशालाः शङ्खाः कम्बवो यत्र । पुनः किं० वरः प्रवरः केशपाशो मूर्द्धजवजो यत्र तत्, पक्षे केशो वरुणस्तस्य पाशोऽत्रं यत्र । पुनः किं० कुन्दावदाता ये द्विजा दन्तास्ते राजमानं भ्राजमानम्, पक्षे कुन्दावदाता ये द्विजाः पक्षिणः अर्थात् राजहंसास्तैरिति । अपरं पूर्ववत् ॥ ७३ ॥ सदब्जवासं श्रुतिशालि हारिब्राह्मीकमत्यद्भुतपुष्पदन्तम् ।
1
९५
उल्लासभृत्सौम्यमुदारतारं
व्योमेव भाति स्म तदास्यमुच्चैः ॥ ७४ ॥
तस्य बालस्यास्यं व्योमेव गगनमिव, भाति स्मेत्यन्वयः । श्लिष्टविशेषणैस्तत्तुल्यतां व्यनक्ति - किं० सती श्लाघ्याऽब्जवासा लक्ष्मीर्यस्य तत्, पक्षे सन् विद्यमानोऽब्जस्य चन्द्र. मसो वासो वसतिर्यत्र । पुनः किं० श्रुतिभ्यां श्रवणाभ्यां कर्णाभ्यामिति यावत्, शालि मनोज्ञम्, पक्षे श्रुतिः श्रवणनामक नक्षत्रं तेन शालि । पुनः, हारिणी रम्या ब्राह्मी वाग् यत्र तत्, के ब्राह्मीकम्, पक्षे ब्राह्मी रोहिणी यत्र । पुनः किं० अतिशयेनाभुतानि यानि पुष्पाणि कुसुमानि तद्वद्दन्ता रदा यत्र तत्, पक्षे अत्यद्भुतौ पुष्पदन्तौ सूर्याचन्द्रमसौ यत्र । पुनः किं० उल्लासभृत् अत एव सौम्यं प्रसन्नम्, पत्रे उल्लासभृत् सौम्यो बुधो यत्र । पुनः किं० उदारे तारे कनीनिके यत्र तत्, पक्ष उदारास्तारास्तारका यत्रेति ॥ ७४ ॥
इत्युक्तं बाल्यचापल्यचेष्टावपुः पुष्ट्यादिवर्णनम्, अथाग्रेतनं वृत्तं षभिर्वृत्तैर्वर्णयति
अन्येद्युरानन्दितसर्वपौरं
-