________________
१९४
विजयप्रशस्त्याम् ।
नयोः कुचयोर्यमं युग्मं यस्यास्तां, पुनर्नयेन नीत्या मांसल पुष्टं मानसं यस्यास्तां, कनीं कन्यां परिणीय गृहस्थताया अगारित्वस्य, अशेषं समस्तं, सुखं आत्मसात् स्वाधीनं कुर्वित्यर्थः ॥ ६ ॥ सुर इवाऽनुभवाऽऽत्मज ! नित्यशः सुरवधूपमचश्ञ्चलचक्षुषाम् । सुखमखण्डितमत्र धुरि स्थितो धनवतां नवताण्डवडम्बरैः ॥ ७ ॥
हे आत्मज तनय ! सुरवधूपमा देवाङ्गनातुल्याश्चञ्चलचक्षुषो लोललोचनाः स्त्रिय इति यावत् तासां, अखण्डितं संपूर्ण सुखं, सुर इवानुभवेत्यन्वयः । कैः, नवताण्डवडम्बरैनूतननाटकाडम्बरैः, त्वं कीदृशः, धनवतां व्यवहारिणां धुरि स्थित इति ॥७॥ नवजलानि नभोऽम्बुपबालके सलिलवाह इवातुलकौशलः । वितर वत्स ! यथेच्छमतुच्छकोऽर्थिनि वसूनि वसूर्जितमूर्त्तिभाक् ॥ ८ ॥
हे वत्स ! त्वं, किं०, अतुलकौशलोऽनल्पप्रावीण्यः, नभोऽम्बुपबालके चातकपोते, सलिलबाहो मेघः, यथा नवजलानि वितरति तथाऽर्थिनि याचके, वसूनि धनानि वितर देहि । कीदृशः, अतुच्छकः पूर्णः, चित्तविचाभ्यामिति गम्यम्; पुनः, वसुभिस्तेजोभिरूर्जितां मूर्ति भजतीति वमूर्जितमूर्तिभाक् ॥ ८ ॥ वजननीवचनैः स इतीरितः
पुनरभाषत मातरमुल्लसन् । नियतिमन्नियमो नियमस्थिति