SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ . . पञ्चमः सर्गः। - प्रियतमायतमानमनाः शिशुः ।। ९॥ ___ इति व्यावर्णितः, स्वजनन्याः कोडिमदेवीनाम्न्या वचनैः, स शिशुर्जयासिंहः, इरितः प्रेरितः सन् , पुनः, उल्लसन् , प्रमोदेनेति शेषः, पुनर्मातरं अभाषतोवाच, कीदृशः, नियतिमान् निश्चयवान् नियमो निजप्रतिज्ञारूपो यस्य स नियतिमनियमः, पुनः, नियमस्थितिरेव भियतमा प्रणयिनी तस्यां यतमानं यत्नवद् मनो यस्य स नियमस्थितिप्रियतमायतमानमना इति ॥९॥ अपि शिवाध्वनिबद्धधियां नृणा- . . मघनिदानमभाणि जिनेन या। मम तदम्ब ! गृहस्थतया तया किमधुना मधुना महतामिव ? ॥ १० ॥ शिवाध्वा मुक्तिमार्गस्तत्र निवद्धधियां बद्धबुद्धीनामपि नृणां, चरमशरीरिणामपीति शेषः, या जिनेन भगवता, आसन्नोपकारित्वेन श्रीवर्धमानखामिनेति यावत् : अधानां पापानां दुःखानां वा, निदानं कारणम्, अभाणि भाणिता। हे अम्ब तया गृहस्थतयाऽगारवासेन, अधुना मम किं १, कृतमिति यावत् । दृष्टान्तमाहमहतां सतां, मधुना मधेनेवेति ॥१०॥ न विरसासु मरुष्विव हस्तिनां भवति यासु रतिः सुखकृद् ,नृणाम् । बुधजनैः पथिकाः पथि पाप्मनः सुनयना नयनाशकृतः स्मृताः ॥ ११ ॥ हस्तिनां मरुषु स्थलीष्विव, किंलक्षणासु, विरसासु निर्ज लासु, अन्यत्र निःखादासु विपाकत इति, यासु रतिर्नृणां
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy