SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ६८२ विजयप्रशस्त्याम् । कलावतां या श्रेणी तस्या वचनानामगोचरोऽविषय इति ||२७|| नैकाश्वाद्यंशुकादीनां दानानि ददिरेतराम् । सङ्घलोकेन तुष्टेन यथेष्टं याचके जने ॥ २८ ॥ तत्रत्यङ्गलोफेन याचके जने मार्गणादौ यथेष्टं यथारुचि, नैकाश्वाशुकादीनामनेकतुरङ्गमसिचयादीनाम्, आदिशब्दात् करभकनकमुद्रिका कर्णाभरणजाममुद्रादीनां चापि दानानि ददिरेतरां भूरितराणि दत्तानीत्यर्थः ॥ २८ ॥ श्रीपूज्यपादपीयूषपादमुद्वीक्ष्य तत्क्षणात् । उल्लासं सरसः सङ्घपारावारः प्रपेदिवान् ॥ २९ ॥ श्री पूज्यपादपीयूषपादं गुरुचन्द्रमसम्, उद्वीक्ष्य दृष्ट्वा, स सङ्घ एव पारावारः समुद्रः, किं०, सरसः सहर्षः, पक्षे सजलः, उल्लासं प्रपेदिवान् प्राप्त इति ॥ २९ ॥ अपूजि सूरिराजोऽथ श्राद्धैः स्वर्णादिनाणकैः । तच्चतुर्मासकं तत्र निर्विघ्नं निरमापयत् ॥ ३० ॥ अथ स सूरिराजस्तत्रत्यैः श्राद्धैः स्वर्णादिनाणकैः अपूजि पूजितः, च पुनः तत्र नवीननगरे, तच्चतुर्मासकं निरमापयद् निपादयामासेति ॥ ३० ॥ जाभनामा पुरे तत्र भाग्यवान् भूमिवल्लभः । दर्शनाय मुनीशस्य सोऽन्यदाऽऽगाद् मुदाऽऽस्पदम्॥३१॥ तत्र पुरे नवानगरे, जाम इति कुलरूढिजं नाम यस्य सः, यत तद्वंशजाः सर्वेऽपि जामनामान उच्यन्ते तेन जामो नाम भूमिबल्लभो राजा सः, अन्यदा सुनीशस्य सुरेः, दर्शनाय मुदा हर्षेण, आस्पदं प्रतिश्रयम्, अथवा स राजा, किं०, मुदाऽऽस्पर्द हर्षस्थानं सन्, आगाद् ॥ ३१ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy