________________
५६८
विजयप्रशस्त्याम् ।
सूरिः पुनरपि शत्रुञ्जयोर्वीधरम् इयिवान् आगतवानिति ॥५२॥ पाथोजन्मकरं गवां गणधरं प्रौढप्रतापोद्धुरं दृष्ट्वा सूरिवरं तदा मुमुदिरे यात्रार्थमभ्यागताः । लोका मालवमेदपाटमरुभूमुख्या असंख्या भृशं सामोदाः कमलाश्रयाः सदलिकाः पद्मा इवाऽहर्मणिम् ५ ३
तदा तस्मिन्नवसरे, गुरुं दृष्ट्रा मालवमेदपाटमरुभूमुख्याअसंख्या लोका ये यात्रार्थमभ्यागतास्ते तदा मुमुदिरे हर्ष प्राप्ता इति, अहमणि सूर्य, पद्मा इव, यथा पद्मा अहर्मणिं दृष्ट्रा मोदन्तेः सूरिवरं सूर्ये च किं०, पाथोजन्म कमलं तद्वत् करौ यस्य, रवेस्तु पद्मपाणित्वात्, तथा गवां रुचां वाचां च गण धरतीति, प्रौढप्रतापो दुरं स्पष्टं, पद्मा लोकाच सामोदाः कमलाश्रया इति तु विशेषणद्वयं सुबोधम्, सदलिका एकत्र सल्ललाटाः, अन्यत्र सद्भ्रमरका इत्यादि ॥ ५३ ॥ श्रीसिद्धादिरसावितः सुखकरः सूरीश्वरोऽसावितः श्रीसंघे युगपद् बभूवतुरुभौ प्रीत्यै तदा संगतौ । कामोल्लासकरौ कुचाविव पयः पूर्णौ स्वमातुः शिशावभ्येतौ मधुमाधवाविव जने यद्वा वसन्ताऽऽगमे ॥५४॥
इतोऽसौ श्रीसिद्धाद्रिः शत्रुञ्जयः, इतोऽसौ सुखकरः सूरीश्वरः, एतौ उभौ तदा संगतौ युगपत् समकालं, श्रीसंघे प्रीत्यै बभूवतुः, इवेति दृष्टान्तोपनये, यथा शिशौ मातुः पयःपूण, पुनः, कामोल्लासकरौ, कुचौ भवतः यद्वाऽथवा, जने वसन्ताऽगमे मधुमाधवौ चैत्रवैशाखौ, अभ्येतौ प्रीत्यै भवतइति ॥ ५४ ॥
सेवां साधु विधाय तीर्थतिलके भूयस्तरां सादरैः