SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३८८ विजयपस्त्याम् । असौ गुरुः, अत्र देशे सवालखनामके देखें, समुपागतः सन्, समस्तलाकैरज्ञायि मेने ॥२॥ आश्चर्यचर्याव्रजवर्यवीर्यै. भूयोभिरुत्साहभृदुत्सवौधैः । उल्लासवत्सां पुरि नागपुर्या चक्रुश्चतुर्मासमृषीशमुख्याः ॥ ३ ॥ आश्चर्यचर्यानजस्याऽद्भुतोपलक्षितगमनस्य वयं वीर्य सामर्थ्य येभ्यस्तैः, पुनः, भूयोभिः बहुभिः, उत्साहभृतां महाजनानामुत्सवौघैः, उल्लासवत्यां नागपुर्या पुरि नागोरनान्नि नगर, ऋषीशमुख्यास्ते पूज्याश्चतुर्मासं चक्रुरिति ॥ ३ ॥ चित्तं चतुर्मासकपारणे श्री___ सूरैर्जगल्लोकहितार्थमिच्छोः। सज्जं सुहृज्जन्तुकगूर्जरत्रा धात्रीपवित्रीकरणार्थमासीत् ॥ ४ ॥ अय तच्चतुर्मासकपारणे जाते सति, श्रीसूरेः, किं०, जगलोकहितार्थमिच्छोः जगजनानुकूल्याभिलाषिणः, चित्तं मनः, सज्जमुत्सुकं, आसीत् । किमर्थमित्याह-सुहृदः सस्नेहा जन्तवो लोका यत्र सा स्वार्थिके कप्रत्यये सुहज्जन्तुका सश्रद्धलोका या गूर्जरत्राघात्री गूर्जरधरा तस्याः पवित्रीकरणार्यमित्यर्थः ॥४॥ पुण्यात्मिकाभिर्वरदेशनाभि रहिस्तडित्त्वानिव नुन्नतापः । वृद्धि नयन्नध्वनि बोधिबीजा कूरानघासज्जनसज़नानाम् ॥ ५॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy