SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ____ अहंम ... अथैकादशः सर्गः। अथैकादशः सर्गः समारभ्यते, अस्मिन् सर्गे पूर्व नवमसर्गनिर्मितवर्णनानां भट्टारकरीहीरविजयमूरिचरणानां कियच्चरितं रचयतिमेवातदेशादथ मारवक्ष्मा लोलेक्षणालङ्करणीभवन्तः । अभ्याययुः श्रीगुरुहीरपादा देशं सलक्ष्मीकसपादलक्षम् ॥ १ ॥ अथ मेवातदेशात् क्रमेणोग्रसेनपुरे, फतेपुरे, अभिरामावादे, पुनरुग्रसेनपुरे च, इति चतुर्मासकचतुष्टयं विधाय ततश्चलन्तः पुनौरवक्ष्मालोलेक्षणाया मरुस्थलीभूमिभामिन्या अलङ्करणीभवन्तः सन्तः, श्रीगुरुहीरपादाः पूज्यश्रीहीरविजयमूरयः, श्रीफलवर्धिपार्श्वनाथयात्रां कृत्वा, सलक्ष्मीकः सश्रीको यः सपादलक्षो नामा नागपुरनगरालङ्कृतो देशस्तं सलक्ष्मीकसपादलक्षं देशं, अभ्याययुरागतवन्त इति ॥ १ ॥ गङ्गाप्रवाहः किमु तापहारी कल्पद्रुमः किं सकलोपकारी । श्रीसूरिसिंहः समुपागतोऽसा वज्ञायि देशेऽत्र समस्तलोकैः ॥ २ ॥ श्रीसूरिसिंहः, किं०, तापहारी, ततः किं०, गङ्गाप्रवाहः, पुनः कि०, सकललोकानामुपकारी, ततः किं०, कल्पद्रुम इति,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy