SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३८६ विजयप्रशस्त्याम् । शो न स्यात्, किं०, असन् अश्रेष्ठः, वसन्तागमे हि पत्राणां प्रसुनानां चांद्रमः शीतव्यपगमश्च स्यातां, तेन तयोरुपद्रवो न स्यात्, तथा स्तम्भतीर्थे, किं०, श्रीणां तीर्थे क्षेत्रे, अथवा श्रीमत् तीर्थ संघो वाऽर्हचैत्यादि यत्र तत्र, नव्यर्षिराजि नवीनाचाराजे लसति सति, किं०, सहोभाजि बलवति ज्ञानादिबलशालिनि, दुःस्थताया दारिद्र्यस्य, भीर्नासीत् परद्वीपान्तरात् प्रवहणानां क्षमणाऽऽगमात् पुनः, व्यसनशतसृजः कष्टशतकर्तुः, मिथ्यात्विराजः पूर्वोक्तकल्याणराजनाम्नोऽपि भीर्भयं नासीत् । अत्र सर्गे केवलमिन्द्रवंशाभिंषं छन्दः, " स्यादिन्द्रवंशा ततजैरसंयुतैः, इति लक्षणसद्भावात् । अन्तिमे वृत्तत्रये प्रथमं मालिनीवृत्तम्, द्वितीयं मन्दाक्रान्तावृत्तं, तयोर्लक्षणं तु प्रागुक्तम् । तृतीयं तु स्रग्धरादृत्तम्, तल्लक्षणं यथा-" म्रनैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” इति ॥ ८२ ॥ इतीति सकलं प्रकटम् इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणेसुशिष्यमुख्यपण्डितपुरन्दरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचक श्रीगुणवि जयगणिविरचितायां विजयमदीपिकाऽभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायां दशमः सर्गोऽर्थतः समर्थितः ।।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy