________________
चतुर्थः सर्गः ।
भद्रे ! सहोदरि ! देहि दिशेति ॥ ७४ ॥ भ्रात्रेत्याभिहिता साऽश्रुमुखी सा सुमुखी जगौ । तर्णकस्येव धूर्वत्स ! तपस्या तव दुर्वहा ॥ ७५ ॥
१७३
इति भ्रात्राऽभिहिता प्रोक्ता, सा सुमुखी सुवदना, कीदृशी, अश्रुमुखी सती, जगौ बभाषे । तदेवाह - 'वत्सोऽपत्ये, उपलक्षणात् लघुभ्रात्रादावपि' इत्यनेकार्थटीकाकारकवाक्यात्, हे वत्स लघुभ्रातः ! तर्णकस्य वत्सस्येव, धूर्धुरा, तब तपस्या दुर्बहा दुःरतेश धार्येत्यर्थः ॥ ७५ ॥
पुनर्यद् बभाषे तदेवाह - परिणीयाऽधुना तेन वधूं देववधूपमाम् ।
भुङ्क्ष्व भोगांस्तया सौम्य ! समं रत्येव मन्मथः ॥७६॥ तेन हेतुना पूर्वप्रतिपादितेनेति, अधुना सांप्रतं, देववधूपमां सुरखीतुल्यां, बधूं पत्नीं, परिणीय रत्येव मन्मथः कामः, तया समं, हे सौम्य मनोहर ! भोगान् भुङ्क्ष्वेति ॥ ७६ ॥ ममाधारोऽसि वत्स ! त्वं लताया इव भूरुहः । भ्राता हि सुखकृत् स्त्रीणां कृषीणामिव वारिमुक् ॥ ७७॥
है वत्स ! लताया भूरुह इव वृक्ष इव, ममाधारस्त्वमेवासीति योगः । हीति यतः, भ्राता स्त्रीणां सुखकृदस्ति, दृष्टान्तमत्राहकृषीणां इव यथा, वारिमुक् मेघ इति ॥ ७७ ॥ इत्याग्रहरुजं तस्या वैराग्यवचनौषधैः ।
स कुमारोऽगदङ्कार इव सद्यो निराकरोत् ॥ ७८ ॥ कुमारो हीरनामा, अगदङ्कार इव वैद्य इव, वैराग्यवचनौषधैः संसाराऽसारतादिवाग्भेषजैः, तस्या भगिन्याः, इत्याग्नहरुजं इठरोगं, निराकरोत् न्यकुरुते स्मेति ॥ ७८ ॥