________________
१७४
विजयपत्रस्त्याम् ।
अथोपाश्रयमागत्य नत्वा च मुनिसत्तमान् । हीरजीाजहारैवं हारिणं विनयं वहन् ॥ ७९ ॥
उपाश्रयमागत्य मुनिसत्तमान् गुरून् , नत्वा प्रणम्य, च पुनः, हारिणं मनोज्ञं, विनयं वहन् हीरजीकुमार एवं वक्ष्यमाणं, व्याजहारेति जगो॥ ७९ ॥ तपस्यामहमादित्सुरस्मि क्लेशविनाशिनीम् । भगवन् ! भवदभ्यणे कूपे पाथ इवाऽध्वगः ॥ ८ ॥
हे भगवन् ! भवदभ्यर्णे युष्मत्समीपे, कूपेऽध्वगः पथिकः, पाथ इव पानीयमिव, क्लेशविनाशिनी तपस्यामहमादित्सुग्रहीतुमिच्छुः, अस्मीति ॥ ८॥
तस्येति वचसाऽऽचार्यवर्या मुमुदिरेतराम् । शिष्यरत्नस्य लब्धौ हि हर्ष उत्कर्षभाग् भवेत् ॥१॥
आचार्यवर्यास्त पूज्याः, इति तस्य वचसा मुमुदिरेतरां अतिमुदं दधुः, हीति यतो हेतोः, शिष्यरत्नस्य लब्धौ प्राप्तौ सत्यां, हर्षउत्कर्षभाग् भवेत् महतामप्यतिशायी प्रमोदः स्यादिति ॥८१॥ निरीक्ष्य शस्तैः सामु र्लक्षितं लक्षणैरिमम् । गणेन्द्रैर्निरणायीति भाव्ययं गच्छधूर्वहः ॥ ८२ ॥
शस्तैः प्रशस्तैः, सामुद्रः सामुद्रिकशास्त्रोक्तैर्लक्षणैः, लक्षितमलंकृतम् , इमं कुमारं, निरीक्ष्य गणेन्द्रैस्तपगच्छपैः, इति निरणायि निर्णयश्चक्रे । इतीति किमित्याह-यदयं शिष्यो गच्छ धूर्वहो भावीति ।। ८२ ॥
अथ दशभिर्दीक्षामहोत्सवं वर्णयति- सजितस्फारशृङ्गारैरखनैरिवं नागरैः।