SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । यत्प्रतापस्य दीप्तस्य सादृश्यं नास्ति भास्करैः 1 उदयं दिशि पूर्वस्यामेव येऽनुभवन्ति यत् ॥ ३८ ॥ पुनः, यत्प्रतापस्य भास्करैः सूर्यैः, सादृश्यं साम्यं, नास्ति । उत्तरार्धेन तद्धेतुमेव प्रकटयति-यदिति यतः कारणात् एते भास्कराः, पूर्वस्यामेव दिशि उदयमनुभवन्ति सुरत्राणरामतापस्तु सर्वदिक्षुदयीति ॥ ३८ ॥ , ४३० प्रकारैः प्रचुरैरम्यैरलङ्कृत्याऽऽत्मनः पुरीम् । स सुरत्राणराजोऽथ गुरोः संमुखमाययौ ॥ ३९ ॥ स सुरत्राणराट् आत्मनः पुरीं सीरोहीनाम्नी, प्रचुरैः प्रकारैश्चतुष्पथशृङ्गारणादिभिः, अलङ्कृत्य गुरोराचार्यस्य, संमुखमाययौ आगतः, कोशद्वयमिति श्रुतिः ॥ ३९ ॥ अथ त्रिभिस्तां नगरीं वर्णयति भोगावतीमिवाऽस्तोकभोगिलोकमनोहराम् । लङ्कामिव सुवर्णाऽऽढ्यां प्राज्यपुण्यजनप्रियाम् ॥४०॥ नरवाहनसंचार पेशलामलकामिव । वृपव्यापारसंभाररम्यां स्वर्गिपुरीमिव ॥ ४१ ॥ प्रकाममनघैः संघैः संसूत्रितमहोत्सवाम् । श्रीरोहीं श्री अनूचानः पुण्यराशिरिवाविशत् ॥ ४२ ॥ भोगावतीं नागानां पुरीभिव, अस्तोकभोगि लोकै भोगिभिर्जनैः, पक्षे भोगिलोकैः पन्नगलोकैर्मनोहरां, पुनः, लङ्कां रावणनगरीमित्र, सुवर्णैः शोभन वर्णैर्ब्राह्मणवणिग्क्षत्रियादिभिराढ्यां, पक्षे वगैः काञ्चनैस्तत्र जात्यार्जुनखानीनां सद्भावादिति,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy