SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । " तत्र अङ्कहव्याशनभूपवत्सरे १६३९ वर्षे पुनः, त्रयोदशीवासरे किं०, इन्दुवर्जिते श्यामायां त्रयोदश्यामिति, पुनर्मासे, किं०, शुक्रे ज्येष्ठाख्ये, पुनः, प्रभाते प्रातर्वेलायां प्रथमयामे, पुनः, त्रिदशेशमन्त्रिणि गुरुवारे ॥ २४ ॥ पुनः, बहून् महोत्सवान् जनेषु कुर्वत्सु जनेषु किं कुर्वन्सु, दधत्सु विभ्रत्सु, कां, अतिमेदुरां मुदं हर्ष, कैरित्याह-शृङ्गारिसुहासिनीजनप्रणीतगीतैः शृङ्गारी शृङ्गारवान् यः सुहासिनीजनः सधववधूजनस्तेन प्रगीतानि यानि गीतानि तैः पुनर्जनेषु किं०, दानं ददत्सु, कस्येत्याह-धनकाञ्चनाम्बरोमिंकातुरङ्गद्विपमुख्य वस्तुनः अत्र धनकाञ्चनाम्बरादिभ्यो द्विपदानं सर्वोत्तममभूतपूर्वत्वात् तत्तु मेडताद्रङ्गवासिना सा० - सदारङ्गाभिधानेन श्राद्धेन दत्तमिति ॥ २५ ॥ पुनर्जनेषु कीदृशेषु, दुकूलदिव्याम्बररत्नकाञ्चनाद्यलङ्कृतीनां पट्टकूलमवरवस्त्रमणिसुवर्णप्रमुखालङ्काराणां स्तोमेन समूहेन मनोज्ञा मूर्तयोऽङ्गानि येषां तेषु लोकेषु मिलितेषु, साडम्बरं श्रीगुरवः सीकरीद्रङ्गे प्रवेश चक्रुरिति । इति त्रयाणां व्याख्या ।। २६ ॥ , विपक्षसंपत्तटिनीपयोधिना नयाम्बुजोल्लास सहस्ररश्मिना । विधाय पूर्वं मिलनं महीभुजा प्रतिश्रये नः प्रतिगन्तुमर्हति ॥ २७ ॥ समर्थनिर्ग्रन्थगृहस्थसार्थसत् परिच्छदोपा सितपादपङ्कजाः । विचार्य चित्तान्तरिति व्रतीश्वरा अकब्बरोवींश्वरसौधमभ्यगुः ॥ २८ ॥ ३३३
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy