SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३३२ विजयप्रशस्त्वाम् । कला येभ्यस्तैः रजःपक्षे महाव्रतिनां महामुनीनां प्रीतिकला येभ्यस्तैः ||२२|| पुनः किं० गुरूत्तमाः गङ्गाप्रवाहाच, सुपर्वभिः समुल्लासभृतः गुरुपक्षे सुपर्वभिः शोभनोत्सवैः, गङ्गाप्रवाहपक्षे सुपर्वभिर्देवैः पुनः, तापं संतापं, हरन्तो जगतां जगद्वर्तिजनानां, क्रमेण गुर्जरदेशाद् मरुस्थलीदेशमध्ये भूत्वा विहरन्तः सन्तः, अभङ्गवैभवं फतेपुर श्री त्रिपुरारेरीश्वरस्य मस्तकमलञ्चरिति चतुर्णां व्याख्येति ॥ २३ ॥ त्रिभिः प्रवेशोत्सवं वर्णयति — अथाङ्कहव्याशनभूपवत्सरे त्रयोदशीवार इन्दुवर्जिते । शुक्रे च मासे त्रिजगन्मनःसुखप्रदे प्रभाते त्रिदशेशमन्त्रिणि ॥ २४ ॥ दधत्सु शृङ्गारिसुहासिनीजनप्रणीतगीतैरतिमेदुरां मुदम् । ददत्सु दानं घनकाञ्चनाऽम्बरोर्मिकातुरङ्गद्विपमुख्यवस्तुनः ॥ २५ ॥ दुकूलदिव्याम्बररत्नकाञ्चनाद्यलङ्कृतिस्तोममनोज्ञमूर्त्तिषु । जनेषु कुर्वत्सु महोत्सवान् बहून् पुरे प्रवेशं विदधुर्दमीश्वराः ॥ २६ ॥ अथ दमीश्वरा गुरवः फतेपुरपुरे प्रवेशं विदघुरित्यन्वयः । कस्मिन् अड्डा नव, हव्याशना अग्नयस्त्रयः, भूपा- राजानः षोडश, एतेऽङ्कन वामतो गत्या मीलिता यत्र 9
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy