SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४४४ . विनयप्रशस्त्याम् । ___ व्यवहारिणां नियः संघर्षात् पतितौक्तिसः, पुनः, सामजन्मनां हस्तिनां, दानवारिभिर्मदजलैः, वीथी वो शुशुभे । इव यथा, गङ्गायमुनयोर्नयोः, सङ्गे मेलापके, वीथी शोभते । अत्र मौक्तिकानां धवलानां गङ्गोपमा, मदनलानां च श्यामलानां यमुनोपमा चेत्युपमालङ्कारः ॥ ९५ ॥ अनश्ववाराः सुस्फाराः सशृङ्गारास्तुरङ्गमाः। अभ्येयुः श्रीगुरोरुच्चैः किमुच्चैःश्रवसोऽनुजाः ॥९॥ तरङ्गमाः, किं०, अनश्ववारा असादिनः, पुनः किं०, सुस्फाराः यतः सशृङ्गाराः श्रीगुरोः संमुखं अभ्येयुः आगताः, किं उच्चैःश्रवसः शक्रतुरङ्गमस्थ, अनुजा लघुभ्रातर इवेत्युत्ने क्षालङ्कारोऽत्रेति ॥ ९६ ॥ पुष्पाणां तत्र सन् पञ्चवर्णानां प्रकरस्तदा । बभौ बाणधनुःशस्त्रलक्षणं स्वमिवाऽऽङ्गजम् ॥ ९७ ॥ - तत्रोत्सवे, पश्चवर्णानां पुष्पाणां प्रकरः पुञ्जः, बभौ शुशुभे। इवोत्प्रेक्ष्यते-वाणधनुःशस्त्रलक्षणं, आङ्गनं कान्द, स्वं धनं, यतोऽनङ्गस्य पुष्पवाणत्वात् पुष्पधन्वत्वात् पुष्पास्त्रत्वात् , ततो निजजेतगुर्वागमाद् भीतेन तेनाऽनङ्गसुभटेन पुष्परूपं स्ववाणधनुरस्त्रादि सर्व स्वं त्यक्तमिति निर्गलितार्थः ॥ ९७ ॥ तत्रोत्तुङ्गानि विविधवर्णभृत्तोरणान्यलम् । - स्थाने स्थाने विभान्ति स्म धपीव दिवस्पतेः ॥१८॥ __ तत्र विविधवर्णभृत्तोरणानि, स्थाने स्थाने, इवोत्प्रेक्ष्यतेदिवस्पतेः शक्रस्य, धपीव इन्द्रायुधानीव, शोभयेति शेषः॥९८॥ निर्घोषैर्वर्यतूर्याणां पौराणां तुमुलैस्तथा । निर्विवादमभूत् तत्र तदा शब्दगुणं नमः ॥ ९९ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy