________________
द्वादशः सर्गः ।
४४५
तदा तत्रोत्सवे वर्यतूर्याणां निर्घोषैः शब्दैः, पुनः, पौराणां नागराणां, तुमुलै : कोलाहलैः, नथो गगनं यच्छन्दगुणं तार्किका वदन्ति तद् निर्विवादमभूत् यत्र तत्र शब्दानामेव श्रूयमाणत्वात् केवलं शब्दमयं जगज्जातमिति भावः ॥ ९९ ॥ दिव्यैर्दुकूलपटलैरुल्लासितनुयष्टयः । मौक्तिकैः काञ्चनैरात्नैर्भूषणै जिमूर्तयः ॥ १०० ॥ तदा पूर्णघटमूर्धानोऽभुर्मृगीदृशः । पूर्णेन्दुसुन्दरैर्नैकैराका रूपैरिवाऽऽगता ॥ १०१ ॥
दुकूलानां पटलैः प्रभूतैः पट्टकुलैरुल्लासिनी तनुयष्टिर्वपुलता यासां ताः पुनः किं०, मौक्तिकैर्भूषणैर्मुक्ताफलमालादिभिः काञ्चनैयैवेयकमुद्रिकादिभिः, रानैस्तिलकनासिकाभरणकर्णाभरणविशेषैः, भ्राजिनी मूर्तियांसां ताः ॥ १०० ॥ पुनः किं०, पूर्णघटैः पानीयभृतैः कुम्भैः श्रेष्ठं मूर्धा, शीर्ष यासां ताः, मृगीदृशः स्त्रियः, अभुः शोभन्ते स्म । इवोत्प्रेक्ष्यते - नैकैरनेकैः, रूपैः, किं०, पूर्णेन्दुसुन्दरैः संपूर्णचन्द्रमण्डलमण्डितैः, राका पूर्णिमेव, आगता, मस्तकस्थायिघटच्छलात् पूर्णचन्द्रवती बहुरूपिणी राकेवाऽऽगतेति भावार्थः ॥ युग्मव्याख्येति ॥ १०१ ॥
लोकैर्दानान्यदीयन्त धनकाञ्चनवाससाम् । तदा वित्तवर्णवस्त्रवारिवाहैरिवाऽपरैः ॥ १०२ ॥
धनकाञ्चनानि प्रतीतानि वासांसि वस्त्राणि तेषां दानानि लोकैः अदीयन्त दत्तानि, अर्थिभ्य इति गम्यम् । तदेवोत्तरा-र्धेन द्रढयति-लोकैः; किं०, वित्तस्वर्णवत्राणां वारिवाहैर्मेधैः, अत्र प्रत्येकं वारिवाहशब्दः प्रयोज्यस्तेन वित्तवारिवाहैः स्वर्णवारिवाहैः वस्त्रवारिवाहैरपरैरर्थिनां जातैरिति भावः ॥ १०२ ॥