________________
तृतीयः सर्गः।
चार्यधुर्योक्तेः पप्रशन्दस्य पुंनपुंसकलिङ्गत्वात् पनानित्यदुष्टम् । उदीक्ष्य दृष्टा, अहो इत्याश्चर्ये, अमीषां महामुनीनां, महिमा महीयानतिमहान् , एवं च पुनर्गुरून् पौरा नगरनिवासिलोकाः प्रतिमारयोऽपि, स्तुवन्ति मेति ॥ ६८ ॥
तेषां गुरूणाममुतः प्रभूत
प्रभावतः सर्वजनास्तदानीम्। जहर्षुरुत्कर्षितचित्तचेष्टाः - पानीयवाहादिव केकिनोऽमी ॥ ६९ ॥
तेषां गुरूणां अमुत इत्येतस्मात् प्रत्यक्षं वीक्षितात् , प्रभूतप्रभावतोऽतिभूरिमाहात्म्यतः, तदानीं तत्रावसरे, व्यन्तरविनाभावे सति सर्वजना निखिललोकाः, जहर्षहृष्टा बभूवुः । कि०, उत्कर्षिता प्रकर्षवती चित्तचेष्टा मनोवृत्तिर्येषां ते उत्कर्षितचित्तचेटाः, इव यथा, केकिनो मयूराः, पानीयवाहाजलधरात्, इति दृष्टान्तः ॥ ६९॥ - भोगीव निर्मोकमथान्धिताक्षं
. खं खं मतं क्लिष्टगति प्रहाय । स पौरवर्गः सविधे गुरूणां
विशुद्धमध्वानमुपाददे द्राक् ॥ ७० ॥ भोगी सर्पः, यथा निर्मोकं कञ्चुकं, तथा स्वं स्वं मतं निर्ज निजं कुमतं, किं०, अन्धिते मुद्रिते सन्मार्गाऽनवलोकनत्वात् अक्षिणी नयने येन तदन्धिताक्ष, पुनः किं०, क्लिष्टा क्लेशमयी गतिर्यस्मात्तत् क्लिष्टगति, प्रहाय हित्वा, स पौराणां नागराणां वर्गो वजः, अथेदानी, तेषां गुरूणां, सविधे समीपे, विशुद्धमध्वानं सम्यग् मार्ग, उपाददेशीकुरुते स्मेति ॥ ७० ॥