SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 'एकादशः सर्गः । तेषां यथा खर्दुमयुग्मधर्मिवीक्षासमीहा शिथिलीबभूव ॥ ३६ ॥ आभ्यां नानाsन्नपकान्नभरैस्तथा यथेच्छं जनौघा अभोज्यन्त भोजिताः, यथा तेषां भोज्यकृतां, स्वर्दुमयुग्मधर्मिवीक्षायाः स मीहा कल्पवृक्षयुगलिकदिदृक्षा, शिथिलीबभूवेति ॥ ३६ ॥ दिव्यैर्दुकुलैः परिधाप्यते स्म संघस्तथाऽऽभ्यां च सहोदराभ्याम् । व्यापारवृत्तिर्वसनैकमूला मन्दा यथाऽजायत दौष्यिकाणाम् ॥ ३७ ॥ च पुनः तथाऽऽभ्यां सहोदराभ्यां दिव्यैर्दुकूलैः संघः परिधाप्यते स्म यथा दौष्यिकाणां वस्त्रव्यापारिणां वसनैकमूला व्यापारवृत्तिर्वस्त्र व्यापारा जीविका, मन्दा जातेति ॥ ३७॥ पौराय तस्यां पुरि दीयते स्म ताभ्यां तदा श्रीफलपङ्किरिडा | पूर्वापराभ्यां सलिलेश्वराभ्यां ४०१: पीयूषपूर्णा कलसाऽऽवलीव ॥ ३८ ॥ पुनः, तस्यां पुरि पौराय पुरीलोकाय, तदा तत्रोत्सवे, ताभ्यामिद्धा दीप्ता, श्रीफलानां लोकभाषया नालिकेराणां पक्तिः श्रेणिः, दीयते स्म दत्ता । उत्प्रेक्ष्यते - पूर्वापराभ्यां सलिलेश्वराभ्यां समुद्राभ्यां, पीयूपपूर्णामृतभरिता, कलसाऽऽवलीचेति ॥ ३८ ॥ सौधे तयोर्मङ्गलमञ्जुलानि गीतान्यगीयन्त च गायनौघैः । ५२
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy