SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ १०२ विजयप्रशस्त्याम् । किं पुष्पकालावनिपालराज्ये पुस्कोकिलैरूर्जितकूजितानि ? ॥ ३९ ॥ पुनः, तयोः सौधे मङ्गलमजुलानि कल्याणकारीणि, गीतानि गायनौधैरगीयन्त गानविपयीकृतानि । किमित्युत्प्रेक्षायाम्-पुष्पकालावनिपालस्य वसन्तभूपते राज्ये पुंस्कोकिलैः कोकिलवरैः, ऊर्जितानि दीप्तानि कूजितानि गीतानीति ॥ ३९ ॥ सत्कारपात्रास्तिकशस्तमेतद् गेहं महामण्डपमञ्जु रेजे। मुक्ताफलश्रेणिलतावितान रम्याऽमराढ्या मघवत्सभेव ॥ ४० ॥ पुनः, एतयोर्गेहमेतद्गहम् , किं०, सत्काराणां तत्मदत्तस्वर्णमौक्तिकमुद्रिकादीनां पात्रीभूता ये आस्तिकाः साधर्मिकश्रद्धालवस्तैः शस्तं श्लाघ्यम् , पुनमहामण्डपेन मञ्जु रम्यं, रेजे रराज । इवोत्प्रेक्ष्यते-मुक्ताफलानां श्रेणिभिः पुनस्तेषामेव लताभिः, पुनस्तेषां वितानैर्मुक्ताफलश्रेणिभिर्मुक्ताफललताभिर्मुक्ताफलवितानैश्च हारविशेषै रम्या मनोहरा येऽमरा देवास्तैराढ्या, मघवत्सभेव सुधर्मेवेति ॥ ४०॥ इत्यादिभिर्भूरिभिरुत्सवैस्त द्गेहं जगाहे बहुमञ्जिमानम् । वाताभिघाताद् बहलीभवह्नि स्तुङ्गैस्तरङ्गैर्जलधेरिवाम्भः ॥ ४१॥ इत्यादिभिावर्णितलक्षणैरुत्सवः तयोर्गेहं तद्नेहं, बहुमन्त्रिमानं भूरिरामणीयकं, जगाहे मनोम तामापेत्यर्थः । यथा
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy