SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४१६ . विजयाशस्त्याम् । नृपतेस्तनूजः श्रीअकबरशादिः, सपश्रयं सविनयं, पत्रं फु. रमानपत्रकं, जिघाय प्रेषितवान् ॥ ७५॥ 'तल्लिखितोदन्तो यथाआदास्यतेऽथाऽस्य करो मदीये राज्ये न निर्णीतिमतेति कामम् । .. युष्मत्प्रियं पावनपुण्डरीक तीर्थ मया प्राभृतकं कृतं वः ॥ ७६ ॥ अस्य तीर्थ स्य, करो दण्डः, मदीये राज्ये केनापि नादास्यते इति निर्णीतिमता मया, अथ युष्मत्प्रियं भवतां वल्लभं, पावनपुण्डरीकतीर्थ पवित्रशत्रुञ्जयतीर्थ, वो युष्माकं, प्राभृतकं वृतं करमोचनपूर्वकं दत्तमिति ॥ ७६ ॥ तेन भवद्भिः किं कर्तव्यम् ?, इत्याहकृत्वा कृपामक्रशिमानमुच्चैः पूज्यैरथो मय्यनुभाविचित्तैः । । खः श्रीधरः पट्टधरः प्रहेयो नित्यं तमोघ्नो नरकस्य हन्ता ॥ ७७ ॥ अथ पूज्यैः किंलक्षणैः, मयि मद्विपये, अनुभाविचित्तैनिश्चयवन्मानसर्मयि सस्नेहैः, अक्रशिमानं कृशत्वरहितां बहीमिति यावत् , कृपां कृत्वा स्वः पट्टधरो निजपट्टभृत् , किं०, श्रीधरः शोभाभृत् , पक्षे विष्णुः, किं०, नित्यं तमोन्नः पापहरः, पक्षे तमो राहुस्तमोगुणो वा तद्भेदकत्वात् तमोघ्नः, पुनः, नरकस्य निरयस्य, हन्ता, पक्षे नरकस्य दैत्यविशेषस्य, हन्ता इति श्लेषालङ्कारः॥ ७७॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy