________________
२०७
पञ्चमः सर्गः।
२०७ मुनिषु भाव्ययमुन्नतिमान् भृशं
मनसि नक्रमवक्रमवेत्य किम् ?। प्रविदधेऽस्य शिशोर्बहुबन्धुरो
नततमं ततमम्बुजभूरिति ॥ ३९ ॥ अयं जयसिंहकुमारः, मुनिषु उन्नतिमान् भावी इति मनसि अवेत्य ज्ञात्वा, किं०, अम्बुजभूर्विधाता, अस्य शिशोः, नक्रं, किं०, अवक्रं सरलं, पुनः, बहुबन्धुरं घनमनोमं च उन्नततमं चेति कर्मधारये बहुबन्धुरोन्नततमं, पुनः, ततं विस्तीर्ण, प्रविदधे चकारेत्यर्थः ॥ ३९ ॥ निगरणे युगलेऽपि च जङ्घयो
रपि च पृष्ठतटेऽरमदीर्घता । लसति चास्य शिशोः सततोदय
स्पृशदलेशदलेतरमानभूः॥ ४० ॥ च पुनः, अस्य शिशोडिंगरणे कण्ठे, अपि च जङ्ग्योयुगे,अपि च पृष्ठतटे पाश्चात्यभागे, अरं अत्यर्थ, अदीर्घता लसति.शोभतइत्यन्वयः। अदीर्घता किं०, सततोदयं स्पृशतीति सततोदयस्पृशत् पुनः अलेशं लेशवर्जितं अत एव दलेतरं अखण्डितं यन्मानं पूजासंमानादि तस्य भू: स्थानं, यतः कण्ठादिषु हस्त्रेषु नरोर्चाभाग भवतीति भावः॥ ४० ॥ लगनमस्त्यनयोर्मम यज्जग
हरणसारमिति प्रथनोत्सुकम् । स्पृशति चास्य शिशोरिति जानुनी
सरलतारलताकृति दोईयम् ॥४१॥