SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ विजयावस्त्याम् । च पुनः, अस्य शिशोः दोयं, भुजयुगलं, इति हेतोः, जानुनी स्पृशतीत्यन्वयः।दोर्द्वयं किं०, सरलाकुटिला तारा रम्या या लता वल्लिस्तद्वद् आकृतिर्यस्य तत् सरलतारलताकृति, हेतुमाहयत् यस्मात्कारणात् , अनयोर्जानुनोः, मम लगनं जगद्भरणसारमस्ति जगतो यद् भरणं धारणं, पोषणं वा, टुडुभंगा पातोर्धारणपोषणार्थत्वात् , इति प्रथने कथने उत्सुकं तत्परं, अनेन आजानुलम्बिभुजत्वमसूचीति भावः ॥४१॥ पृथुलमस्य शिशोईयमंसयो___ रतिशयोर्ध्वगतं श्रुतिसङ्गतम् । अति विभाति जगदररक्षण क्षममवाममवामतरः पदम् ॥ ४२ ॥ अस्य शिशोः अंसयोः स्कन्धयोयं, कि०, पृथुलं विस्तीर्ण, पुनः किं०, अतिशयोर्ध्वगतं भृशोन्नतिमागतं, पुनः किं०, श्रुतिसङ्गतं कर्णप्राप्तं, पुनः किं०, जगद्भरस्य जगतीभारस्य रक्षणे क्षम, पुनः किं०, अवामं अप्रतिकूलं, पुनः किं०, अवामतरःपदं प्रधानबलास्पदं, अति विभाति भृशं शोभते ॥ ४२ ॥ इति विधिविदधे पदमङ्कितं मृदुलमस्य शुभोर्ध्वकरेखया । इदमशेषजगच्छिरऊर्ध्वगं प्रभविता भवितापविनाशकृत् ॥ ४३ ॥ अस्य शिशोः, विधिविधाता, इति हेतोः, शुभोर्ध्वकरेखया अङ्कितं अलकृतं, पुनः, मृदुलं सुकुमालं, पदं विदध इत्यन्वयः । हेतुमाह-इदं पदं, अशेषजगच्छिरसः समस्तविश्वशिरसः ऊर्ध्व
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy