SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । यन्नामस्मरणाद् नृणामनुदिनं राज्ञां पुरो गौरवं पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥२५॥ यन्नामस्मरणाद् नृणां राज्ञां पुरोऽनुदिनं गौरवं भवति राजप्रसादः स्यादिति, राज्ञां किं०, प्रत्यर्थिक्षितिराजवारिजदृशां वैरिनृपनारीणां वैधव्यदीक्षास्पृशां विधवत्वदायिनां पुनः, सर्वैश्वर्य समप्रभुत्वं भुञ्जन्तीति तेषां पुनः भुजाभ्यामर्जिता लसन्त्यो निःशेषदिक्संपदो यैस्तेषामिति, पार्श्वः ० ॥ २५ ॥ अष्टोत्कृष्टतपःसुरद्रुकुसुमं शक्तिस्फुरव्यक्तयो देवानामपि दुर्लभाः सुमहिमानीरन्ध्रनीराब्धयः । यन्नामस्मरणाद् भवन्ति वशगाः सर्वर्द्धयः सिद्धयः पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥२६॥ ५५६ , यन्नामस्मरणात् अष्टसिद्धयो वशगा भवन्ति, किंलक्षणाः, उत्कृष्टं यत्तपस्तद्रूपो यः सुरद्रुः कल्पवृक्षस्तत्कुसुमं तपःप्रभावादेवैता जायन्ते, तथा शक्त्या स्फुरन्त्यो व्यक्तयो विशेषा यासां ताः, तथा देवानामपि दुर्लभास्तपस्विभिरेव लभ्यत्वात्, तथा सुमहिमारूपनीरन्ध्रनीरस्याऽब्धय इति तथा सर्वा ऋद्धयो याभ्यस्ताः पार्श्वः पा० ॥ २६ ॥ प्रत्यर्थिव्रजवक्त्रचन्द्रतमसः कर्पूरकुन्दोज्ज्वलक्षीरक्षालितऋक्षराजरुचयः संरुद्धविश्वोदराः । यन्नामस्मरणाद् भवन्ति भुवने सस्फूर्तयः कीर्तयः पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥२७॥ यन्नामस्मरणात् कीर्तयः सस्फूर्तयः सदीप्तयः, भवन्ति ; किंलक्षणः, एत्यर्थित्रजो वैरित्रजस्तस्य वक्त्रचन्द्वे तमसो राहुरूपा
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy