SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः। ५५७ स्तद्ग्रासकृत्त्वात्, तथा कर्पूरकुन्दाज्वलक्षीरक्षालितऋक्षराजश्वन्द्रस्तद्वद् रुचिर्यासां ताः, तथा संरुद्धं विश्वस्योदरं याभिस्ताः, पार्थ इति०॥ २७॥ पूर्वस्थप्रणवेन कामदरमाबीजौजसाऽर्हजुपा श्रीचिन्तामणिपार्श्वनाथपटुना प्रान्ते नमःस्वाहिना । यन्नामस्मरणेन मन्त्रविधिना स्वीस्यादवश्यं जगत् पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२८॥ यन्नामस्मरणेन मन्त्रविधिना जगत् स्वीस्याद् वशीभवति, मन्त्रविधिना किं०,पूर्वस्थः प्रथमस्थायी प्रणव ओङ्कारो यत्र तेन, तथा कामदं रमाबीजं तयोहीङ्कारश्रीङ्कारयोः ओजो बलं यस्मिंस्तेनेति, तथा अर्ह इति पदजुपा, तथा श्रीचिन्तामणिपार्श्वनाथ इति नाना पटुना, तथा प्रान्ते नमःस्वाहेति पदद्वयी यस्मिस्तेनेति, 'ओं हीं श्रीं अर्ह श्रीचिन्तामणिपार्श्वनाथाय नमः स्वाहा' इत्यनेन मन्त्रेण, श्रीपार्श्वनामस्मृतेर्महिना जगद् वशे भवति पार्थ इत्यादि० ॥ २८ ॥ यक्ष्माऽऽद्युग्ररुजाविकारनिकरध्वंसैकधन्वन्तरिः फुल्लहालतमालतालफलिनीनीलोत्पलश्यामलः । अस्तु स्वस्तिमनोमनोरथरमादानकदेवद्रुमः प्रत्यमः प्रथितः प्रभुः प्रकटितश्चिन्तामणिः शर्मणे॥२९॥ चिन्तामणिः प्रभुः प्रत्यग्रो नवः, प्रकटितः प्रथितः शर्मणेऽस्तुः कीदृशः, यक्ष्माऽऽद्युग्ररुणाविकारनिकरस्य राजयक्ष्माऽऽदिदुर्वाररोगतजस्य ध्वंसे एकधन्वन्तरिः, पुनः, फुल्लद्धाला ये तमालतालाश्च फलिनी नीलोत्पलानि च तद्वत् श्यामलः श्यामो नीलवर्णः श्यामनीलयोरेक्यात्, पुनः, स्वस्तिमनसां कल्याणा
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy