________________
४४८
विजयप्रशस्त्याम् ।
उपेयिवान् आगत इति, पक्षे गुरुवृहस्पतिः, राजश्चन्द्रस्य, धाम फर्काख्यराशि, स्वोच्चताकारणं मत्वोपेत्येवेति संगतं, ज्योति:शास्त्रे कर्कस्वामी चन्द्रस्तद्धान्नि समागतो गुरुरुच्च इति प्रतीयते ॥ १०९ ॥
गुरुमायान्तमालोक्य राजोल्लासिमना अभूत् । ..
सज्जीवस्येक्षणात् स्थाने मुत् सोमस्याऽऽवनीपतेः॥११०॥ - राजाऽकब्बरः, गुरुं कि०, आयान्तं स्वसौधं प्रत्यागच्छन्तं, दृष्ट्वा उल्लासिमना अभूत, अमुमेवार्थ समर्थयति स्थाने इति युक्त एवायमर्थः, सज्जीवस्य श्रेष्ठगुरोः, ईक्षणाद् विलोकनात, सोमस्य चन्द्रस्य, मिथो वैराभावेन, पक्षे सोमस्य सकीर्तेः सकान्तेवा "उमा कीर्तिः, कान्तिश्च" इति अनेकार्थः, ततः सह उमया वर्तते यः स सोमस्तेन सोमस्य अवनीपतेर्मुद् भवत्येवेति शब्दश्लेप इति ॥ ११० ॥
सदकारि गुरूराज्ञा स्वागतप्रश्नपूर्वकम् । - तत्स्थाने मान्यतेऽनेन यत् सर्वज्ञसुहृत् प्रभुः॥११॥ - श्रीसूरेनयनातिथीकरणानन्तरं गुरूराज्ञा सदकारि सस्कृत इति क्रियासंबन्धः । कथमिति स्वागतप्रश्नपूर्वकं स्वागत सुखेनागतमित्यादिप्रश्नपूर्वकं, तत्स्थाने तद् युक्तं, यत्प्रभुरनेन राज्ञा मान्यते मानस्थानं विधीयते, यतः स सर्वज्ञसुहृत् सर्वज्ञः शिवस्तस्य सुहृद् मित्रं स्वाश्रयमित्रत्वेन, राज्ञा चन्द्रेण, मान्यतएव, तत्त्वतस्तु सर्वे ज्ञाः पण्डितास्तेपां सुहृन्मित्रम् , अथवा सर्वज्ञो जिनेन्द्रस्तन तस्मिन् वा सुशोभनं हृद् यस्येति कृत्वाऽयमर्थः समर्थ इति ॥ १११ ॥ महाव्रतिनमत्यस्तमन्युं दक्षमनोहरम् । वीक्ष्याऽहृष्यद् गुरुं शाहेः सभा सीमन्तिनी सती॥११२॥