________________
विजयप्रशस्त्याम् ।
अत्याग्रहग्रहात् तत्र सङ्घस्याऽनघचेतसः । आसामास सहर्षासु वर्षासु स महर्षिराट् ॥ १७ ॥
६६२
तत्र नगरे, प्रतिष्ठानन्तरमनघचेतसो निष्पापमनसः, सङ्घस्प ं अत्याग्रहग्रहात् बहुहठग्रहणात्, वर्षासु किं०, सहर्षासु क्षेमेण वाहनाद्यागमात् सानन्दासु, स महर्षिराड् गुरुः, आसामास चंतुर्मास स्थितवानित्यर्थः ॥ १७ ॥
भाग्येनेवायमस्माकं धर्मोऽध्यक्षत्वमागतः । मूर्तिमाली समभ्यागात् किंवा वृक्षः सुपर्वणाम् ॥ १८ ॥ दक्षिणो दक्षिणावर्त वारिजः किमु चोर्जितः । किंवा दारिद्र्यवह्नयम्भः कुम्भः पीयूषपायिनाम् ॥ १९॥ नयनानन्दनं सूरिं सुधाञ्जनसमं समम् । एवं व्यचिन्तयच्चित्ते वीक्षमाणो महाजनः ॥२०॥ (त्रिभिर्विशेषकम् )
,
अथ त्रयाणां व्याख्या - मूर्ति श्रीविजयसेनमूरिं, किं०, नयनानन्दनं नेत्राहादकं पुनः किं०, सुधाञ्जनसमममृताञ्जनतुल्यं, पुनः, समं सरलं, वीक्षमाणः पश्यन्, महाजनो नागरलोकः, चित्त एवं व्यचिन्तयत् एवमिति किं १ तदेव लो कद्वयेनाह - भाग्येन इवोत्प्रेक्ष्यते - अस्माकं पुण्येन, अयं गुरुरूपधारी साक्षाद् धर्म एव, अध्यक्षत्वं प्रत्यक्षताम् आगतः; वाऽथवा, किं सुपर्वणां वृक्षः कल्पद्रुमः, मूर्तिमाली मूर्त इव, समभ्यागात् ॥ १८ ॥ च पुनः किमु इति वितर्के, उत्प्रेक्षार्थे वा, अथवा अयं दक्षिणावर्ती वारिजः शङ्खः किं०, दक्षिण उदारः, पुनः, उर्जितो दीप्त इति, वाऽथवा, किं०, पीयूषपायिनां देवानां कुम्भः कामकुम्भ इति किं०, दारिद्र्यवही दौर्गत्यानौ अम्भः पानीयं तदुपशामकत्वादिति ।। १९ ।। विंशः श्लोकस्तु प्रागे