________________
विंशः सर्गः।
६६३ वाऽन्वयविषयीकृत इति पुनर्नोक्त इति दिक् ॥ इति त्रयाणां व्याख्या ॥२०॥
श्रीतपागच्छनाथोऽथो पाथोवाहप्रवाहवत् । सल्लोकस्तोककानेषोऽतोषयद् वचनामृतैः ॥ २१ ॥
पाथोवाहो मेघस्तत्प्रवाहवत् , एष श्रीतपागच्छनाथः, अथ वचनामृतैर्वापानीयैः, सल्लोका एव ये स्तोककाश्चातकास्तान् , अतोषयत् तृतोषेति गमनिका ॥ २१ ॥
अथ प्रान्ते चतुर्मास्या अस्याः सौभाग्यभाग्यभूः । विजहार महीहारः पुरग्रामाकुलामिलाम् ॥ २२ ॥ ___ अथाऽस्याश्चतुर्मास्याः प्रान्ते कार्तिकचतुर्मासकपारणके, सौभाग्यभाग्ययोर्जगद्वल्लभत्वभागधेययोर्भूः स्थानं, पुनः, मह्याः पृथिव्या हारोऽलङ्कृतिभूतः, यतो “वसुधाभरणं पुरुषः" इत्याघुक्तत्वात् , इलां पृथिवीं, किं०, पुरग्रामैराकुलां तब्याप्तत्वादिति, विजहारेति गुरुस्ततो बन्दिराद् व्यहार्षीदिति ॥ २२ ॥
क्रमेण क्रमविच्चक्रचक्रभृद् विहरन् गुरुः।। स्तम्भतीर्थ पुरं प्रापद् मानसं मानसौकवत् ॥२३॥
गुरुः किं०, क्रमविदां मार्गविदां चक्रे समूहे चक्रभृत् सार्वभौमः, क्रमेण विहरन् स्तम्भतीर्थ पुरं प्रापत् , मानसौक इव हंस इव, मानसं सरोवरमिति, ओकशब्दोऽकारान्तोऽप्यस्तीति ध्येयम् ॥ २३ ॥
दूरीकृताघसङ्घन सङ्घनाऽनघचेतसा । महीयांसो महास्तत्र सूत्रयाञ्चकिरे तदा ॥ २४ ॥
सङ्ग्रेन तीर्थीयश्राद्धसङ्ग्रेन, किं०, दूरीकृता अघस्य दुःखस्य सङ्गाः समूहा येन तेन, पुनः किं०, अनघचेतसा निष्पापमनसा,