________________
प्रथमः सर्गः। दर्पकः कन्दर्पस्तस्य यो दर्पोऽहङ्कारः स एव सर्पः पवनाशनस्तत्र सर्पासुहृद् गरुडः। सर्पारातिः सर्पकुलमिव भगवान् कामं जिगायेति भावार्थः। पुनः किं० हरीति । हरि म राजा तस्य यो वंशोऽन्वयस्तत्र रत्नमिव रत्नं तस्योद्योतकत्वात् , विभूपकत्वाद्वा, अथवा 'रनं स्वजातिश्रेष्ठ स्यात्' इति श्रीहेमाचार्यवचनात् सर्वेष्वपि हरिवंश्येषु यदुषु श्रेष्ठ इति दिक। स क इत्याह-यस्मिन् शिवातनयत्वं 'सत् सत्ये' इति वचनात् सत् सत्यमासीत् । शिवातनये हि भगवति शिवातनयत्वं सत्यमेवास्तीति तत्कयनं सिद्धसाधनादनर्थकमिति चेत् । न । उच्यते। अत्र हि शब्दच्छलत्वाच्छिवातनयत्वं कार्तिकेयत्वमित्यर्थः। तत्कथं यथार्थमिति हेतुभूतविशेषणद्वारेणाहयस्मिन् कि० ब्रह्मचारिणि शीलव्रतशालिनि । कुतो जन्मतोऽपि 'आजन्मकामविजयी' इतिपुराणवचनादाबाल्यादपि ब्रह्मचारित्वाच्छ्विातनयत्वं युक्तमेव । कार्तिकेयस्यापि लोके ब्रह्मचारित्वेन कविरूढ्या प्रतीतत्वाच्छिवातनयत्वमप्यस्तीति भावः। पुनः किं लक्षणे, जगदिति । जगतां लोकानां स्वर्गमर्त्यपाताललक्षणानां जयदं जन्मोत्पत्तिर्यस्य तस्मिन्निति । भगवजन्मकल्याणके हि सर्वत्र सर्वेषां सुखाद्वैतभवनात् सर्वदाऽनिष्टत्वेन पारमार्थिकरिपोर्दुःखस्य जयो भवतीति जगजयदजन्मत्वं युक्तमेवेति । कार्तिकेयपक्षेऽपि धर्मधर्मिणोरभेदाज्जगतां जगवर्तिनामधिकाराद्देवानां जयदायि जन्मावतारो यस्येति । इह श्रूयते हि पुरा सर्वेऽपि सुराः संभूय स्वयम्भुवं तारकासुरसंहाराय सेनान्यं याचितवन्तस्ततस्तद्वरमहिम्ना लब्धजन्मनः स्वामिनः साहाय्यात् तेषां तारकध्वंसेन जयो जात