________________
विजयाशस्त्याम् । शान्तिर्निशान्तमणितां तनुतां विभुर्वः
शान्त्यै समस्ततमसां स मनोनिशान्ते । योऽत्रोपभोग्यजनि जन्मनि सार्वभौम
सार्वश्रियोः शिव इवाद्रिसुताधुनद्योः ॥२॥ स शान्तिविभुः षोडशो जिनो वो युष्माकं मनोनिशान्ते हृदयमन्दिरे निशान्तमणितां गृहमणितां तनुतां दीपभावं दधाविति भावः । कस्यै, शान्त्यै शमनाय । केषां, समस्ततमसां सर्वपापानाम् । दीपो हि तमसामन्धकाराणामुपशान्त्यै गृहे भवतीति भगवानपि तथा भवत्विति तत्त्वम् । यत्तदोर्नित्याभिसंवन्धान्स क इत्याशङ्कायामाह-योऽत्रेति । यो भगवान् अत्र जन्मनि इहावतारे सार्वभौमसार्वत्रियोश्चक्रधरतीर्थकरलक्ष्म्योः उपभोगी भोक्ताऽजनि जातवानित्यन्वयः। क इव कयोरिति दृष्टान्तघटनामाटीकते-शिव इव । महेश्वरो यथा अद्रिसुताधुनद्योः पार्वतीमन्दाकिन्योरिति भावार्थः ॥२॥ नेमिः श्रियं दिशतु दर्पकदर्पसर्प
सर्पासुहृत्स सुहृदां हरिवंशरत्नम् । यस्मिन् जगज्जयदजन्मनि जन्मतोऽपि
सद् ब्रह्मचारिण शिवातनयत्वमासीत् ॥ ३ ॥ स नेमिररिष्टनोमिनामा दाविंशस्तीर्यवरः सुहृदां सुमनसा 'श्रीलक्ष्म्याम्' इत्याधनेकार्यवचनात् श्रियं लक्ष्मी, मति, वाणी, शोमा, त्रिवर्गसंपत्ति वा दिशतु इत्यन्वयः । स कि० दर्पकेति ।