SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६२ विजयप्रश्नस्त्याम् । संख्यासु नैकद्विमुखासु यैर्जना___ मुह्यन्ति वित्तैरिव गेहिकर्मसु । जज्ञेऽन्तिषत् स त्रिशतीमुखान् बहून् ग्रन्थान् गरिष्ठान् गणितप्रपञ्चिनः ॥ १३ ॥ - येर्जना एकद्विमुखासु एकद्व्याद्यासु परार्द्धान्तासु संख्यासु न मुह्यन्ति, इव यथा, गेहिकर्मसु गृहस्थकृत्येषु, वित्तैः समृद्धजना न मुह्यन्ति, स अन्तिषत् शिष्यः, त्रिशतीमुखान् ग्रन्थान् किं०, गणितपपश्चिनः संख्याविस्तारिणः , तान् बहून् , जज्ञे ज्ञातवानिति ॥ १३ ॥ अर्थो भवद्भूतभविष्यदात्मको जनेन यैर्ज्ञानवतेव वीक्ष्यते । विवेद शास्त्राणि स शाकुनानि सद् वसन्तराजप्रमुखाणि भूरिशः ॥ १४ ॥ भवद्भूतभविष्यदात्मकोऽर्थः वर्तमानातीतानागतस्वरूपः पदार्थः, यर्जनेन लोकेन, ज्ञानवतेव ज्ञानिनेव, वीक्ष्यते ज्ञायत इति स शिष्यः, तानि वसन्तराजः शकुनशास्त्रविशेषस्तत्मभुखाणि वसन्तराजशकुनार्णवशकुनरहस्यशकुनपश्चाशिकाशकुनमदीपादीनि शास्त्राणि, विवेद वेत्ति स्मेति ॥ १४ ॥ चित्ते तदीये स्फटिकोपमे स्फुटं सर्वात्मना सर्वविदां वचोऽहुतम् । पुरः स्थितं रूपमिवात्मदर्शके __ सद्यो विनाऽऽयाममवाप संक्रमम् ॥ १५ ॥ तदीये चित्ते, किं०, स्फटिकोपमे विशदत्वादच्छत्वाच्च,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy