SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः । सितेतरे पक्ष इवोडुपं स्वम् । मुनीन् समग्रान् गृहमेधिनश्च प्रभुः प्रभूताद्भुतधीरिमाऽवक् ॥ १६ ॥ संलेखनात पोनिर्मापणेन स्वं आत्मानं सर्वथा क्षीणबलमबलं, विचिन्त्य यथा सितेतरे कृष्णे पक्षे, उडुपं चन्द्रं, तथा विज्ञाय स प्रभुः समग्रान् मुनीन् निजनिकटस्थान् च पुनः, गृहमेघिनो गृहस्थांचाssकार्य, प्रभूताद्भुतधीरिमाऽवक विस्मयकारिधैर्यः सन्नुवाचेति ॥ १६ ॥ 9 यदुवाच तदाह ४९९ अवश्यभाविन्यत्रसानकेऽस्मिन् न मेऽस्ति चिन्ता विहितात्मवृत्तेः । इदं भयं भेत्तुमलं निरन्त बला अपि स्युर्न हि तीर्थनाथाः ॥ १७ ॥ हे मुनयः । हे श्रद्धालवः !, अवश्यं निश्चयेन, भाविन्यस्मिन् अवसानके मे मम, चिन्ता नास्ति, यतो मे किं०, विहिता आमनोवृतिरर्थाद् धर्मानुष्ठानादौ येनेति पूर्वार्धम् । उत्तरार्धेनाऽवश्यभावित्वमेवाह - हि यतः, इदं मरणभयं भेत्तुं निरन्तबलाअनन्तबला:, तीर्थनाथा अर्हन्तोऽपि नालं समर्थाः स्युः यदार्षम् - " तित्थयरा गणहारी सुरवइणो चक्किकेसवा रामा । संहरिआ हयविहिणा का गणणा इयरलोगाणं १" ॥१॥ इत्याद्युक्तेरिति ॥ १७ ॥ पुनः किमाहेत्याह अमुत्र सर्वत्र हितोद्यमानां
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy