SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३९९ एकादशः सर्गः। श्रीहरिसूरीश्वरपट्टभानो !भिर्गुरोः फुल्लमनःपयोजौ। अन्येचुरित्थं सहजौ महेभ्यो तौ चिन्तयाश्चक्रतुरात्मचित्ते ॥ ३१॥ गुरोः, किं०, श्रीहीरसूरीश्वरपट्टे भानोस्तदुद्द्योतकत्वात् , गोभिर्वाग्भिर्मयूखैश्च, फुल्लं विनिद्रं मनःपयोजं ययोस्तो, तौ सहजो सोदरौ, महेभ्यो अन्येारेकदा, आत्मचित्ते चिन्तयाश्चऋतुरिति ॥ ३१॥ चैत्यप्रतिष्ठाप्रतिमादिपुण्य क्षेत्रेषु बीजं धनरूपमुप्तम् । सूत्वा यशःपुञ्जपरागिपुष्पं . सद्यो महानन्दफलं प्रसूते ॥ ३२ ॥ चैत्यप्रतिष्ठापतिमादिपुण्यक्षेत्रेषु जिनभवनाविम्बस्थापनाsईत्मतिमाप्रमुखसप्तक्षेत्रेषु, धनबीजमुप्तं सत् यशःपुञ्ज एव परागो यस्मिंस्तद् यशःपुष्पं सूत्वा प्रसूय, महानन्दफलं मुक्तिफलं, प्रसूते ॥ ३२॥ चैत्यं प्रतिष्ठा प्रतिमाऽर्हतां यत् त्यागश्च पात्रेषु विधीयते यत् । संपहरस्याऽऽत्मभुजार्जितस्य नित्यं निधिक्ष्मा भणितेयमेव ॥३३॥ च पुनः, चैत्यं जिनौकः, पुनस्तत्प्रतिष्ठा, पुनरर्हतां प्रतिमा, च पुनः, पात्रेषु साधुसाध्वीश्राद्धश्रादीरूपेषु, यत् त्यागो विधीयते
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy