SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ पोडशः सर्गः। स्तोमं मंश्च कुवादिकौशिकदृशां सान्द्रां च निद्रां ददत् । शृङ्गं पूर्वगिरेरिव द्युतिपतिः सिंहासनं सूरिराट् सद्योऽलङ्कृतवान् महर्षिवृषभैः संस्तूयमानो मुहुः ॥४६॥ ___ सरिराद् सिंहासनं अलङ्कृतवान् इत्यन्वयः; कः किमिव, धुनिपतिः सूर्यः, पूर्वगिरेर्यथा शृङ्गं अलङ्कुरुते, मूरिः सूर्यश्च किं०, संघस्य स्वान्तरूपसरोजराजिम् अभितः सर्वतः, प्रीति नयन्, च पुनः, तामसं पापसंवन्धिनं ध्वान्तसंवन्धिनं च,स्तोमं समूह, नन्; तथा कुवादिकौशिकदृशां परवादिघूकनेत्राणां, सान्द्रां निद्रां ददद् ददानः, तथा महर्षिपभैरुपाध्यायादिभिः साधुभिः, पक्षे माठराद्यैः सूर्यपार्श्ववर्तिभिः, नव्यकाव्यकरणादिना मुहुर्वारं वारं, संस्तूयमानः; इति मूरिमूर्ययोः साधर्म्यात् समानमेव व्याख्यानम् ॥ ४६॥ ध्यानेनाऽतिविनाशिनाऽतिशुचिनेत्यात्मार्थसिद्धेः फलं हृद्यं हृद्यवधार्य शौर्यसदनं श्रीसूरिकण्ठीरवः । अस्योद्यापनकं चिकीर्षुरिव स श्रीतीर्थयात्राभिधं यात्रां कर्तुमनास्ततः पुरवरात् प्राचीचलत् पारणे ॥४७॥ - श्रीसूरिषु कण्ठीरवः सिंहः, ध्यानेन अभ्यन्तरतपसा, अ. तिविनाशिनातिशुचिना परमपवित्रेण, हृद्यं मनोज्ञ, आत्मनोऽर्थसिद्धेः फलं अवधार्य श्रीतीर्थयात्राऽभिधम् अस्य उद्यापनक चिकीर्षुः कर्तुमिच्छरिव, ततः पुराल्लाटापल्लिनाम्नः, यात्रा कर्तुमनाः पारणे चातुर्मासकस्य प्राचीचलत् चलति स्मेति ॥४७॥ भूयस्र्थ नमस्यया फलमयं खं जन्म जन्मिप्रियः कुर्वन् श्रीइलदुर्गनीवृति महातीर्थास्पदेऽथागमत् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy