________________
प्रथमः सर्गः।
१३ सारखतपक्रियादीनि श्रीसिद्धहेमाभिधानशब्दानुशासनपर्यन्तानि महाव्याकरणानि, तेषां यदीक्षणं सम्यगर्थसार्थावलोकनं तत्र विचक्षणं निपुणं चक्षुरिव चक्षुर्मतिर्येषां ते । तदेतेन लक्षणदक्षा ये महावैयाकरणा इति । अत्र हि भिन्नाधिकरणत्वेन प्रतिपदं यच्छब्दोपादानमदुष्ट, प्रत्युत तस्योपयोगित्वादेवेत्यवधेयम् । अथ ते त्रयोऽपि मां ग्रन्थकर्तारं खं करन्तु अङ्गीकुर्वन्तु, इतिभावः । अत्र च दृष्टान्तं प्रकटयति-अजमिव पअकराः, पद्ममिव पद्मपाणयः । सूर्या इति शेषः॥ ९ ॥
उल्लासिनं निजद्दशा सुदृशां सभायां
वारामधीशमिव चन्द्रिकयेव चन्द्रः । .... पुण्यात्मनां जडमपि प्रकरोति शक्तिः
सानुग्रहा भवतु सा मयि निर्गुणेऽपि ॥१०॥ अत्र यच्छब्दोऽध्याहियते । तेन या पुण्यात्मनां महात्मनां शक्तिस्सामर्थ्य जडमपि मूर्खमपि पुरुषं उल्लासिनं प्रकरोति। कया, निजदृशा 'दृग् द्रष्टदर्शनध्यक्षिण' इति श्रीहेमाचार्यवचनात् निजदृशा स्वदर्शनेन स्वस्वरूपाविर्भावलक्षणेन । क, सभायां पर्षदि। केषां, सुदृशां सम्यग्दृशाम् , अर्थात् पण्डितानामिति । उक्तमेवार्थ दृष्टान्तेन दृढयति-यथा चन्द्रः चन्द्रिकया ज्योत्स्नया वारामधीशं समुद्रं तथेत्युपसंहारः। सा पुण्यवच्छक्तिनिर्गुणेऽपि मयि ग्रन्थकृति. सानुग्रहा भवतु अनुग्रहपरा भवत्विति भावः ॥१०॥ प्राप्य प्रसत्तिमृषभाद्यसमाहतां वाग्
देव्या गुरोश्च विदुषां च सशक्तिमित्थम् ।