SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ समः सर्गः । मासिकयोमा मणिनामधारिणस्तदा गणिपद्मसागरलब्धिसागरममुखाः सुधीपदे पण्डितपदे, स्थापिता इति ॥ ७५ ॥ श्रेष्ठी सुहृष्टो हृदि मूल इत्यथो निःशेषलोकाय ददौ तदा मुदा । एकैकां द्राग् महमुन्दिकामसौ स्वभावसंपद्वरवर्णिकामिव ॥ ७६ ॥ ret मूलश्रेष्ठी सुहृष्टः सन् निःशेषलोकाय तदा तत्र मिलिताय समस्तजनाय, एकैकां महमुन्दिकां गुर्जरदेशमसिद्धां रूप्यमयीं ददौ दत्तवान्, प्रभावनयेति शेषः । स्वभावसंपदः स्वचित्तश्रद्धासंपत्तेः, वर्णिकामिवेत्युत्प्रेक्षा ॥ ७६ ॥ स्वर्णोर्मिकाभिर्वसनैश्च शोभनै दिव्यैर्दुकूलैश्व तदर्पितैस्तदा । बभुस्तमामर्थिजना विकखरै २८९ र्नानापयोजप्रकरैरिवान्धयः ॥ ७७ ॥ स्वर्णस्य ऊर्मिकाभिर्मुद्रिकाभिः च पुनः, शोभनैर्वसनैश्रीवरैर्दुकूलादिभिर्दिव्यैश्च तदर्पितैर्मूल श्रेष्ठ्यर्पितैः, तदाऽर्थिजना याचकाः, बभुस्तमां अति भ्राजन्ते स्म । दृष्टान्तमाह-यथा विकस्वरैर्विनिद्रैः, नानापयोजप्रकरैर्विचित्रसरोरुहव्यूहैः, अब्धयः सरांसि, “ अब्धिः सरसि सागरे " इत्यनेकार्थत्वादत्राधिकारादर्थप्रतिपत्तिरिति सरोजाधिकारादत्र अन्धयः सरोवराणि गृह्यन्ते ॥ ७७ ॥ ज्येष्ठाग्रग्रो मूल इवैष कान्तिमान् पद्मोत्सवः श्रीगुरुरेष चार्यमा । ३८
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy