SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ५१४ विजयप्रशस्त्याम् । विना तवाज्ञामथ मुक्तिकान्ता- . निषङ्गदूतीं निजमूर्ध्नि कस्य । निदेशमेणीनयनेव पुण्ड्रं श्रियः पदं नित्यमहं निधास्य ? ॥ ५५ ॥ हे तात ! अथ तवाज्ञां विना कस्य निदेशं निजमूर्ध्नि निधास्ये, तवाज्ञां किं०, मुक्तिरेव कान्ता तस्या निषङ्गः सङ्गस्तत्र दृतीं, केव, एणीनयनेव कामिनीव, पुण्ड्रं तिलकं, निदेशं तिलक च किं०, श्रियः पदमिति स्पष्टम् ॥ ५५ ।' वयि प्रयातेऽस्तमनन्तकान्तौ पयोजिनीभर्तरि भव्यपद्मे । ध्रुवं भवित्री भरतावनीयं कुपाक्षिकोल्लूकतमःप्रसारा ॥ ५६ ॥ . हे प्रभो ! त्वयि पयोजिनीभर्तरि सूर्ये, अस्तं प्रयाते सति, शीदृशे त्वयि, अनन्ता कान्तिर्यस्य तस्मिन् , पक्षे अनन्ते आकाशे कान्तिर्यस्येति तस्मिन् , पुनः किं०, भव्या श्लाघ्या, अथवा भव्यानां प्राणिनां, अथवा भन्यस्य भद्रस्य पद्मा श्रीर्यस्मात् तस्मिन् , पक्षे भव्यानि पद्मानि यस्मादिति तस्मिन् , इयं भरतावनी, कुपाक्षिका एवोलुकास्तमांसि च तेषां प्रसारो यस्यां सेति, ध्रुवं भवित्रीति ॥ ५६ ॥ विना भवन्तं गृहरत्नमीश! सुदीप्तमाधाय कमुत्प्रकाशः। शिवाध्वनीनो हृदि धाम्नि भावी जनः समस्तो भरतावनीजः ? ॥ ५७ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy