________________
२१८
विजयाशस्त्याम् ।
आस्यमस्य शुशुभे भृशरक्तं
नागवल्लिदलरङ्गतरङ्गैः ॥ ६५ ॥ नागवल्लिदलरक्तरार्धशरक्तं अस्य आम्यं शुशुभे इत्यन्वयः । किमित्युत्प्रेक्षायां, अधरोष्ठरसज्ञातालुमूलं अतुलं शोणिमानं कलयत् दधत् , अस्तीत्युत्प्रेक्ष्यते; अनेन रक्तताऽतिशायित्वमुक्तमिति ॥६५॥ भाविगच्छविभुतासुरवल्ले
रालवाल इव दीप्तिपयोभूः। मूर्ध्नि रत्नमुकुटो विकटोऽभा
दस्य जात्यकनकोत्कट उच्चैः ॥ ६६ ॥ - अस्य मूर्ध्नि विकटः पृथुः, रम्यो वा, यदाहुः श्रीहेमाचार्यपादा अनेकार्थसंग्रहे-"विकटः कराले पृथुरम्ययोः" इति; विकटो रत्नमुकुटः, पुनः किं०, जात्यंन कनकन उत्कटः, अभात शुशुभे इत्यन्वयः। इवोत्प्रेक्ष्यते-भाविगच्छविभुतासुरवल्लेः आगमिष्यद्गच्छश्वर्यकल्पलतायाः, आलवालः स्थानकमिव, कीहक् , दीप्तिपयोभूः कान्तितोयास्पदम् ॥ ६६ ।। अस्य कुन्दकुमुदेन्द्रनुकारः
शोभते स्म हृदि हार उदारः । उल्लसल्लवणिमैकपयोधेः
फेनपिण्ड इव पाण्डिमपूर्णः ॥ ६७ ॥ अस्य बालस्य, हृदि हारः शोभते स्मेत्यन्वयः। हारः कि०, कुन्दकुमुदेन्दूनां अनुकारः साम्यं यस्य सः, पुनः, उदारः। इवोसेक्ष्यते-उल्लसल्लवणिमेकपयोधेः देदीप्यमानलावण्यार्णवस्य, फेनपिण्डः, कीदृशः, पाण्डिम्नाऽतिपाण्डुरत्वेन पूर्ण इति ॥६७॥