SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । ऽनूचानचक्रधरतां स ततो दधानः। निश्शेषसाहसिकमौलिरकब्बरस्य क्षोणीपतेरतिभृशं मिलनोत्सुकोऽभूत् ॥८५॥ ततो दिवसात् सोऽनूचानचक्रधरतां दधान आचार्य चक्रभृत्, कि०, सद्भक्तिभाजनैर्जमजनैर्वन्धमानः, पुनः, निश्शेषेषु समस्तेषु साहसिकेषु सत्ववत्सु मौलिमुकुटः,तन्मुख्यत्वात् , अकबरस्य क्षोणीपतेः; मिलनायोत्सुकोऽभूद् बभूवेति ॥ ८५॥ ___ इतीति सर्वमवदातम् । इति सकलसुविहितसभासार्वभौमसमानपण्डितमण्डलीमौलिमौलीयमानपण्डितश्रीकमलविजयगणिसुशिष्यमुख्यपण्डितपुरदरप्रख्यपण्डितश्रीविद्याविजयगणिविनेयवाचकश्रीगुणविजयगणिविरचितायां विजयप्रदीपिकाभिधानधारिकायां सुखावबोधिकायां श्रीविजयप्रशस्तिमहाकाव्यटीकायामेकादशः सर्गोऽर्थतः समर्थितः ।। अहम् अथ द्वादशः सर्गः। अथ द्वादशः सर्गों निसर्गेण सुगमोऽपि विषमपर्यायकाशनेन वित्रियते, तस्यायमादिः श्लोकः-- चित्तचिन्तितचार्वर्थदानदेवतरूपमौ । प्रणम्याऽऽत्मगुरोः पादौ राजधन्यपुरादथ ॥१॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy